________________
२८१
[गवैडकम् ] गौश्च ऐ (ए) डकश्च । 'स्वरे वाऽनक्षे' (१।२।२९) अव ।
[ अजा-विकम् ] अजा च अविकश्च ।
[अजैडकम् ] अजा च एडकश्च ।
[कुब्ज- वामनम् ] कुब्जश्च वामनश्च । [कुब्ज- कैरातम् ] कुब्जश्च कैरातश्च । [ पुत्र-पौत्रम् ] पुत्रश्च पौत्रश्च ।
[श्व चण्डालम् ] श्वा च चण्डालश्च ।
[स्त्री-कुमारम् ] स्त्री च कुमारश्च ।
[ दासी- माणवकम् ] दासी च माणवकश्च ।
[ शाटी-पच्छिकम्] शाटी च पच्छिकश्च (पच्छिका च) ।
[ उष्ट्र- खरम् ] उष्ट्रश्च खरश्च ।
[ उष्ट्र - शशम् ] उष्ट्रश्च शशश्च ।
[ मूत्रपुरीषम् ] मूत्रं च पुरीषश्च (पंच) ।
[ यकृन्मेदः ] यकृच्च मेदश्च ।
[मांस-शोणितम्] मांसं च शोणितं च ।
[दर्भ-शरम् ] दर्भश्च शरश्च ।
[दर्भ-पूतीकम् ] दर्भश्च पूतीकश्च ।
[अर्जुन-पुरुषम्] अर्जुनश्च पुरुषश्च ।
[तृणोलपम् ] तृणानि च उलुपश्च (उलपानि च ) ।
[कुडी- कुडम् ] कुडी च कुडश्च ।
[ दासी दासम् ] दासी च दासश्च ।
[ भागवती - भागवतम् ] भागवती च भागवतश्च ।
[ गो-saौ, गो-ऽश्वम् ] गौश्च अश्वश्च । 'एदोतः पदान्तेऽस्य लुक्' (१।२।२७) अलोपः ।
[गो-अधौ, गो- अधम् ] वाऽत्यसन्धिः (१।२।३१ ) विकल्पेऽसन्धिः । [गो-विकी, गो-विकम् ] गौश्च अविकश्च गोऽविकौ, गोऽविकम् । [गवेलको, गवेलकम् ] गौश्च एलकश्च । औ । सि-अम् ||छ ||
न दधिपय आदिः ||३ ।१ ।१४५ ।।
=
Jain Education International
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[दधिपय आदिः ] दधिपय आदिर्यस्याऽसौ ।
[दधि-पयसी] दधि च पयश्च = दधिपयसी । 'पशु - व्यञ्जनानाम्' (३।१।१३२) इति प्राप्त्यामपि इतरेतरो द्वन्द्वः ।
For Private Personal Use Only
www.jainelibrary.org