________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
२८०
[विपाट-चक्रभिदम] विपाट च चक्रभिच्च । 'चवर्ग-द-ष-ह: समाहारे' (७।३।९८) अतसमासान्तः । [कुरु-कुरुक्षेत्रम्] कुरवश्च कुरुक्षेत्रं च । [कुरु-कुरुजाङ्गलम् कुरवश्च कुरुजाङ्गलं च । [वरेन्द्री-मगधम्] वरेन्द्री च मगधश्च । [मथुरा-पाटलिपुत्रम्] मथुरा च पाटलिपुत्रश्च (पुत्रं च) । [काञ्ची-कन्यकुब्जम्] काञ्ची च कन्यकुब्जं च ।
[शौर्य-केतवतम] शौर्यं च नगरम्, केतवत(ता) च ग्रामः = शौर्यकेतवतम् । 'क्लीबे' (२।४९७) ह्रस्वः । सि । 'अतः स्यमोऽम्' (११४१५७) अम् ।
[श्रावस्ती-मध्यदेशम्] श्रावस्ती च मध्यदेशश्च । [मगध-श्रावस्ति] मगधश्च श्रावस्ती च । 'क्लीबे' (२।४।९७) ह्रस्वः । [कुक्कुट-मयूर्यो] कुक्कुटश्च मयूरी च । औ । [गङ्गा-यमुने] गड़ा च यमुना च । औ । 'औता' (१।४।२०) ए । [मद्र-केकयाः] मद्राश्च केकयाश्च । [मथुरा-तक्षशिले] मथुरा च तक्षशिला च । औ । 'औता' (१।४।२०) ए ||छ।।
पात्र्यशूद्रस्य ।।३।१।१४३।। [पात्र्यशूद्रस्य पात्र | पात्रमर्हति । 'दण्डादेर्यः' (६।४।१७८) यप्र० । अथवा 'पात्रात् तौ' (६।४।१८०) यप्र० । यैर्भुक्ते पात्रं संस्कारेण शुध्यति ते = पात्रार्हाः । पात्र्यश्चासौ शूद्रश्च = 5 पात्र्यशूद्रम्, तस्य ।
[तक्षा-ऽयस्कारम्] तक्षा च अयस्कारश्च । [रजक-तन्तुवायम्] रजकश्च तन्तुवायश्च । [कुलाल-वरुटम्] कुलालश्च वरुटश्च । [किष्किन्ध-गब्दिकम्] किष्किन्धि(न्ध)श्च गन्दि(गब्दि)कश्च । [शकयवनम्] शकश्च यवनश्च । [जनगम-बुक्कसाः] जनङ्गमाश्च बुक्कसाश्च । [बाह्मण-क्षत्रिय-विशः] ब्राह्मणाश्च क्षत्रियाश्च विशश्च । जस् ॥छ।।
गवाश्वादिः ।।३।११४४।। [गवाधादिः] गवाश्व आदिर्यस्याऽसौ । प्रथमा सि । [गवाश्वम] गौश्च अश्वश्च । 'स्वरे वाऽनक्षे' (१।२।२९) अव । [गवा-ऽविकम] अविरेव = अविकः । ‘यावादिभ्यः कः' (७।३।१५) कप्र० । गौश्च अविकश्च ।
P卐 पात्र्यशूद्रस्तस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org