SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । चर्चा (र्चा) पारयतीति । 'अच्' (५।१।४९) अच्प्र० अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । खण्डं विद्यते यस्य । 'अतोऽनेकस्वरात्' (७।२।६) इकप्र० । 'अवर्णवर्णस्य' (७।४।६८ ) अलोपः । चर्चापारश्च खण्डिकश्च । २७९ [ याज्ञिक - वैयाकरण] यज्ञं वेत्ति । याज्ञिकौत्थिक- लौकायितिकम्' ( ६ । २ । १२२) इकण्प्र० । याज्ञिकानामाम्नायः । 'छान्दोगौक्त्थिक- याज्ञिक - बहूवचाच्च धर्मा - ऽऽम्नाय संघे' (६।३।१६६ ) ञ्यप्र०य । याज्ञिक्यं यज्ञं वा वेत्त्यधीते वा । 'याज्ञिकश्च वैयाकरणश्च । [पिता-पुत्रौ ] पिता च पुत्रश्च । 'पुत्रे' ( ३।२।४०) आ ।।छ। [नित्यवैरस्य ] 5 नित्यं वैरं यस्य सः नित्यवैरस्तस्य । = [ अहि-नकुलम् ] अहिश्च नकुलश्च । [ मार्जार- मूषिकम् ] मार्जारश्च नित्यवैरस्य || ३ |9|१४१ ।। मूष ( षि) कश्च । । [ ब्राह्मण- श्रमणम् ] ब्राह्मणश्च श्रव (म ) णश्च [ श्वा वराहम् ] श्वा च वराहश्च । 'शुनः' ( ३।२१९० ) दीर्घत्वम् । [श्व चण्डालम् ] श्वा च चण्डालश्च । [ अश्वमहिषम् ] अश्वश्च महिषश्च । [ काकोलूकम्] काकश्च उलूकश्च । [ कौरवपाण्डवाः, कौरव पाण्डवम् ] कुरु । कौरवाश्च पाण्डवाश्च । [देवाऽसुराः, देवा-ऽसुरम् ] देवाश्च असुराश्च । राज्यापहारकृतमेषां वैरम् । [वा- वराहं वैरम्] श्वा च वराहश्च । 'आ द्वन्द्वे' ( ३।२१३९) आ । [ मार्जारमूषिकं वैरम् ] मार्जारश्च मूषिका च । 'क्लीबे' (२।४।९७ ) ह्रस्वः । सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । [“दक्षिणाद् वामगमनं प्रशस्तं श्व-शृगालयोः " ] वामे गमनम् । श्वा च शृगालश्च = श्वशृगालौ, तयोः । [" विद्यते लोक औत्पत्तिको विरोधो यथा मार्जार-मूषिकयोः ] उत्पत्तौ भवः = औत्पत्तिकः । 'अध्यात्मादिभ्य इकण् (६।३।७८) इकण्प्र० । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । । छ । । नदी- देश- पुरां विलिङ्गानाम् ||३ | १ | १४२ ।। नदीदेशपुरस्तासाम् । [ नदीदेशपुराम् ] नदी च देशश्च पुरश्च ( पूश्च ) [विलिङ्गानाम् ] विविधं लिङ्गं यासां तास्तासाम् । [उध्येरावति] उज्झत्युदकमिति । 'कुप्य- भिद्योध्य-सिध्य तिष्य-पुष्य-युग्या ऽऽज्य-सूर्यं नाम्नि' (५।१।३९) उध्यनिपातः । इरा । इरा विद्यते यस्यां सा । ' नद्यां मतुः ' ( ६ । २ । ७२) मतुप्र० मत् । 'अधातूदृदितः' (२।४।२) डी०ई । 'नाम्नि ' (२।१।९५ ) इति म० व० | उध्यश्च इरावती च । [गङ्गा-शोणम् ] गङ्गा च शोणश्च । P5 नित्यमिति अनिमित्तं जातिनिबद्धं वैरं यस्य स तस्य । Jain Education International = For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy