________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
ह्यस्तनी अन् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'अड् धातोरादि० ' ( ४।४।२९) अडागमः ।
[अतिष्ठन् कठ-कालापाः] स्था पूर्ववत् । ह्यस्तनी अन् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'श्रौति - कृवु-धिवु०' (४।२।१०८) तिष्ठ आदेश: । 'अड् धातोरादि० ' ( ४।४।२९ ) अडागमः ।
[कट-कालापाः प्रत्यष्ठुः] प्रति-स्था पूर्ववत् । अद्यतनी अन् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'पिबैति-दा-भू० ' (४।३।६६) सिज्लोपः । 'सिज् - विदोऽभुवः' (४।२।९२) अन्० पुस्० उस् । ' इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ॥छ।
अक्लीवेऽध्वर्युक्रतोः || ३।१ ।१३९ ।।
[ अक्लीबे] न क्लीबं = अक्लीबम् । 'नञत्' (३।२।१२५) न० अ० तस्मिन् ।
[अध्वर्युक्रतोः] अध्वर्योः क्रतुः
अध्वर्युक्रतुः, तस्य ।
[ साहूना-तिरात्रम् ] अहन् । अह्नां समूहः = आहूनः । 'श्वादिभ्योऽञ्' (६।२।२६) अञ्प्र० अ । वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अनीना - ऽदट्यह्नोऽतः' (७।४।६६ ) अस्य लुक् । सह आनेन वर्त्तते = साहूनः । अतिक्रान्ता रात्रिः = अतिरात्रः । 'संख्यातैक- पुण्य-वर्षा दीर्घाच्च रात्रेरत्' (७|३|११९ ) अत्समासान्तः । ' अवर्णवर्णस्य' (७।४।६८) इलोपः । सानश्च अतिरात्रश्च ।
[पौण्डरीका-तिरात्रम् ] पौण्डरीकश्च अतिरात्रश्च ।
२७८
=
[गवामयना-ऽऽदित्यानामयने] आमीनातीति आमयः । 'अ' (उणा० २) अप्र० । आमयं करोतीति । 'णिज् बहुलं०' ( ३।४।४२) णिच्प्र० । आमय्यतेऽनेनेति । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० अन । 'णेरनिटि' (४।३।८३) णिच्लोपः । गवाना (मा) मयनं = गवामयनम् । 'स्वरे वाऽनक्षे' (१।२।२९ ) अव । न आमयनमनामयनम् । आदित्यानामनामयनं = आदित्यानामयनम् । गवामयनं च आदित्यानामयनं च = गवामयनाऽऽदित्यानामयने । औ । 'औरी : ' (१।४।५६)
ई ।
[इषु-वज्रौ] इषुश्च वज्रश्च ।
[उद्भिद्-विलभिदौ] उद्भिच्च व (वि) लभिच्च ।
[दर्शपौर्णमासौ] दृश्यतेऽनेनेति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० - अ । पूर्णो माश्चन्द्रो यस्यां सा = पूर्णमासी । ‘पूर्णमासोऽण्’ (७।२।५५) अणूप्र० । 'अणञेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२० ) ङी । पूर्णमास्यां भवः । भर्तुसन्ध्यादेरण' ( ६ । ३।८९ ) अण्प्र० । दर्शश्च पौर्णमासश्च ||छ ||
निकटपाठस्य || ३|१|१४० ।।
[निकटपाठस्य ] निकटः पाठो यस्याऽसौ निकटपाठस्तस्य । अथवा नि-समीपे पाठो यस्य सः । 'सं प्रोन्नेः संकीर्णप्रकाशाऽधिक-समीपे' (७।१।१२५) कटप्र०, तस्य ।
[ पदक - क्रमकम् ] पद । क्रम । पदं वेत्त्यधीते वा । क्रमं वेत्त्यधीते वा । ' पद क्रम - शिक्षा-मीमांसा - साम्नोऽकः '
( ६ । २।१२६ ) अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पदकश्च क्रमकश्च = पदकक्रमकम् ।
Jain Education International
[क्रमक-वार्त्तिकम् ] वृत्तिमधीते । 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० - इक । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । क्रमकश्च वार्त्तिकश्च ।
[चर्चापार-खण्डिकम् ] चर्चा 'पार कर्मसमाप्तौ ' (१९०१ ) पार् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० ।
For Private Personal Use Only
www.jainelibrary.org