SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७७ वृद्धिः । शाङ्खिकश्च मौरजिकश्च । [मार्दङ्गिक-पाणविकम्] मृदङ्गवादनं शिल्पं यस्य सः । ' शिल्पम् ' ( ६।४।५७ ) इकण्प्र० इक । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । पणववादनं शिल्पं यस्य सः । ' शिल्पम् ' ( ६।४।५७ ) इकण्प्र० - इक । ' वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । मार्दङ्गिकश्च पाणविकश्च । [ वीणावादक - परिवादकम् ] वीणावादकश्च परिवादकश्च । [ पाणि-गृध्रौ ] पाणिश्च गृध्रश्च पाणिगृध । — [पाणि-पणवौ] पाणी च पणवश्च । प्राण्यङ्गाप्राण्यङ्गा (ङ्गादि) संभे (द) पाणिपणवादिपु प्रयोगेषु एकत्वनिराकरणार्थमिति न तु सूत्रकरणात् सूत्रकरणं तु व्यक्तिविवक्षायां चरितार्थं बहुवचनम् ॥छ || श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [स्थेणः ] स्थाश्च इण् च = स्थेण तस्य । [अद्यतन्याम् ] अद्य भवा । ' सायं चिरं प्राह्णे - प्रगे ऽव्ययात्' (६।३।८८) तनट्प्र० तन । 'अणञेयेकण्- नञ्- स्नञ्टिताम्' (२।४।२०) डी । अद्यतने विहिता विभक्तिरपि अद्यतनी, तस्याम् । चरणस्य थेोऽद्यतन्यामनुवादे || ३|१|१३८ || [ अनुवादे] 'वद व्यक्तायां वाचि' (९९८) वद्, अनुपूर्व० । अनुवदनम् । 'भावा- ऽकर्त्री : ' (५।३।१८) घञ् ० अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः, तस्मिन् । [ प्रत्यष्ठात् कठकालापम् ] स्था ( ३।१।४९ ) सूत्रवत् प्रतिपूर्व० । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'अड् धातोरादि० ' ( ४।४।२९) अडागमः । 'पिबैति-दा-भू-स्थः सिचो लुप्, परस्मै न चेट्' ( ४ | ३ |६६) सिज्लोपः । 'इवर्णादे० ' (१।२।२१) य । 'स्था-सेनि - सेध - सिच- सञ्जां द्वित्वेऽपि ' (२।३।४०) स० ष० । ' तवर्गस्य चवर्ग० ( १ | ३ |६० ) थ०० । कठाश्च कालापाश्च । 'क्लीवे' ( २/४/९७) ह्रस्वः । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७ ) अम् । P0 [ उदगात् कट-कौथुमम् ] 'इंण्क् गतौ' (१०७५) इ उत्पूर्व० । अद्यतनी दि - त् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अडागमः । 'इणिकोर्गा' (४।४।२३) इ० गा० । 'पिवैति दा भू-स्थः सिचो लुप्० ' ( ४ | ३ |६६ ) सिज्लोपः । काश्च कौथुमाश्च । 'क्लीबे' ( २१४ ९७ ) ह्रस्वः । प्रथमा सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । [प्रत्यष्ठात् मीद- पैष्पलादम् ] मुदस्याऽपत्यम् । पिप्पलादस्याऽपत्यम् । 'ऋषि वृष्ण्यन्धक - कुरुभ्यः' (६।१।६१) अण्प्र० । ' वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धि: । 'अवर्णवर्णस्य' ( ७१४/६८) अलोपः । मौदेन - पिप्पलादेन प्रोक्तं वेदं विदन्त्यधीयते वा । 'मौदादिभ्यः' (६।३।१८२) अणुप्र० । तद्वेत्त्यधीते (६।२।११७) अण्प्र० । 'प्रोक्तात् ' ( ६।२।१२९) अण्लोपः । मौदाश्च पैष्पलादाश्च । प्र० सि । 'अतः स्यमोऽम् ' (१।४।५७) अम् । Jain Education International [ उदगुस्तार्किक - वैयाकरणाः ] तार्किकाश्च वैयाकरणाश्च । जस् । 'इंण्क् गती' (१०७५) इ, उत्पूर्व० । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'इणिकोर्गा' (४।४।२३ ) इ०गा० । 'पिबैति०' ( ४ | ३ |६६) सिज्लोपः । ' सिज्विदोऽभुवः' (४।२।९२) अन् पुस्० उ० । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'अड् धातोरादि० ' (४।४।२९) अट् । - [ अगमन् कठ-कालापाः ] अम (३९२) द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लृ गतौ ' ( ३९६) गम् । - अद्य भवोऽद्यतनः । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy