SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ पश्चादयः । प्राणिनश्च पश्वादयश्च = प्राणिपश्वादयः । न प्राणिपश्वादिः = अप्राणिपश्वादिः, 5 तस्मात् । [ युग-वरत्रम् ] युगं च वरत्रा च । 'क्लीवे' (२।४।९७ ) ह्रस्वः । [ कुण्ड-बदरम् ] कुण्डं च बदरं च । [तरुशैलम्] तरुश्च शैलश्च इति वाक्यम्, न तु बहुवचनेन, अन्यथा प्लक्षयवा इतिवद् बहुवचनमेव स्यात् । [विन्ध्य- हिमालय ] विन्ध्यश्च हिमालयश्च । औ । [नन्दक- पाञ्चजन्यौ] नन्दकश्च पाञ्चजन्यश्च । औ । [आरा-शस्त्रि, आरा-शस्त्र्याविमे ] आरा च शस्त्री च । 'क्लीवे' ( २ ।४ । ९७) ह्रस्वः । [ ब्राह्मण-क्षत्रिय-विट्शूद्राः, ब्राह्मण-क्षत्रिय-विट्शूद्रम् ] ब्राह्मणश्च क्षत्रियश्च विट् च शूद्रश्च । जस् । [गो-महिषौ, गो-महिषम् ] गौश्च महिषश्च । [दधिघृते, दधि घृतम्] दधि च घृतं च । [ प्लक्ष - न्यग्रोधौ २] प्लक्षश्च न्यग्रोधश्च । औ । [कुश-काशौ २] कुशश्च काशश्च । औ । [व्रीहियवौ २] व्रीहिश्च यवश्च । [ रुरुपृषतौ २] रुरुश्च पृषतश्च । [ हंस- चक्रवाकौ २] हंसश्च चक्रवाकश्च । [ अश्वरथौ २] अश्वश्च रथश्च । औ । [रूप-रस-गन्ध-स्पर्शाः] रूपश्च रसश्च गन्धश्च स्पर्शश्च । जस् । [उत्क्षेपणा-ऽपक्षेपणा-ऽऽकुञ्चन - प्रस (सा) रण- गमनानि ] उत्क्षेपणं च अपक्षेपणं च आकुञ्जनं च प्रसारणं च गमनं च । जस् । ‘नपुंसकस्य शि : ' (१।४।५५) शि० - ३० । 'स्वराच्छौ ' (१।४।६५) नोऽन्तः । ' नि दीर्घः' (१।४।८५) दीर्घः ।।छ।। प्राणि- तूर्याणाम् ||३|१|१३७ ।। [प्राणितूर्याणाम्] प्राणिनश्च तूर्याणि च = प्राणितूर्याणि । प्राणितूर्याणामङ्गानि = प्राणितूर्याङ्गानि (णि), तेषाम् । 'कवर्गैकस्वरवति' (२।३ । ७६) न० ० । P २७६ [ इदं शिरो-ग्रीवम् ] शिरश्च ग्रीवा च । 'क्लीबे' (२।४।९७) ह्रस्वः । [ इदं पाणि-पादम् ] पाणी च पादौ च । [ इदं कर्ण - नासिकम् ] कर्णौ च नासिका च । 'क्लीबे' (२।४।९७ ) ह्रस्वः । [इदं शङ्ख-पटहम्] शङ्खश्च पटहश्च । [ इदं भेरी-मृदङ्गम् ] भेरी च मृदङ्गश्च । [शाङ्खिक-मौरजिकम्] शङ्खवादनं शिल्पं यस्य सः । ' शिल्पम्' (६।४।५७) इकण्प्र० →इक । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । मुरजवादनं शिल्पं यस्य सः । ' शिल्पम् ' ( ६ |४|५७ ) इकण्प्र० इक । ' वृद्धिः स्वरेष्वादे० ' ( ७|४|१) तस्य । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy