SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [बहुत्वे] बहूनां भावः । ‘भावे त्व-तल्' (७।१५५) त्वप्र०, तस्मिन् । [धवा-ऽश्वकर्णम्, धवा-ऽश्वकर्णाः] धवाश्च अश्वकर्णाश्च, विकल्पे सर्वत्र जस् । [कुश-काशम्, कुश-काशाः] कुशाश्च काशाश्च । [मुञ्ज-वल्वजम्, मुञ्ज-वल्वजाः] मुआश्च वल्वजाश्च । [तिल-माषम्, तिल-माषाः] तिलाश्च माषाश्च । [वीहि-यवम्, वीहि-यवाः] वीहयश्च यवाश्च । [रुरु-पृषतम्, रुरु-पृषताः] रुरवश्च पृषताश्च । [ऋश्यैणम्, ऋश्यणाः] ऋश्याश्च एणाश्च । [हंस-चक्रवाकम्, हंस-चक्रवाकाः] हंसाश्च चक्रवाकाश्च । [तित्तिरि-कपिञ्जलम, तित्तिरि-कपिञ्जलाः] तित्तिरि(र)यश्च कपिञ्जलाश्च । [प्लक्ष-यवाः] प्लक्षाश्च यवाश्च । [गो-पृषताः] गावश्च पृषताश्च । जस् न केवलं गो-पृषता इत्यत्र, अमृगैः पूर्वेण विकल्पो भवति, रुरवश्च पृषताश्च = रुरु-पृषता इत्यत्रापि पूर्वेण विकल्पो न भवति ।।छ।। सेनाङ्ग-क्षुद्रजन्तूनाम् ।।३।१।१३४।। [सेनाङ्गक्षुद्रजन्तूनाम्] सेनाया अङ्गानि = सेनाङ्गानि, क्षुद्राश्च ते जन्तवश्च = क्षुद्रजन्तवः, सेनामानि च क्षुद्रजन्तवश्च = सेनाङ्गक्षुद्रजन्तवस्तेषाम्, षष्ठी आम् । [अश्वरथम्] अश्वाश्च रथाश्च । [रथिकाऽश्वारोहम] रथ । रथो विद्यते येषां ते । अस्याऽर्थे 'ग्रीह्यादिभ्यस्तौ' (७।२।५) इकप्र० । रथिकाश्च अश्वारोहाश्च । [यूकालिक्षम् यूकाश्च लिक्षाश्च । कीटपिपीलिकम] मत्कुणजातिरिति कीटाश्च पिपीलिकाश्च | 'क्लीबे' (२।४।९७) ह्रस्वः । [सादि-निषादिनौ] सादी च निषादी च । औ । [अश्व-रथौ] अश्वश्च रथश्च । [यूका-लिने] यूका च लिक्षा च । औ । 'औता' (१।४।२०) ए । [हस्ति-मशकाः] हस्तिनश्च मशकाश्च । प्रथमा जस् ॥छ।। फलस्य जातौ ।।३।११३५।। [बदरा-ऽऽमलकम्] बदराणि च आमलकानि च ।।छ।। अप्राणि-पश्वादेः ।।३।१।१३६।। [अप्राणिपश्चादेः प्राणा विद्यन्ते येषां ते = प्राणिनः । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । पशुरादिर्येषां ते = Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy