SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। (१।४।६५) नोऽन्तः । ' नि दीर्घः' (१।४।८५) दीर्घः ||छ । अश्ववडव - पूर्वापरा -ऽधरोत्तराः ||३|१|१३१ ।। [अश्ववडवपूर्वापराऽधरोत्तराः ] अश्ववडवश्च पूर्वापरश्च अधरोत्तरश्च अश्ववडवपूर्वापराऽधरोत्तराः || [अश्ववडवम्, अश्ववडवौ ] अश्वश्च वडवा च । " द्वन्द्वैकत्वा ऽव्ययीभावौ क्रियाव्ययविशेषणे" "लिङ्गानुशासने” नपुंसकलिङ्गप्रकरणे श्लोक - ९ इति वचनात् नपुंसकत्वम्, ततोऽश्ववडवं सिद्धयति, अश्ववडवौ न, अश्ववडवे इति स्यात्, अतो ह्रस्वपाठः । = [पूर्वापरम्, पूर्वापरे] पूर्वा च अपरा च । 'क्लीवे' (२।४।९७) ह्रस्वत्वम् । द्वितीयेऽनेन ह्रस्वत् । 'सर्वादयोऽस्यादौ ' ( ३।२।६१ ) पुंवत् । [ अधर - मध्यमौ ] अधरश्च मध्यमश्च । [उत्तर-दक्षिण] उत्तरश्च दक्षिणश्च । प्रथमा औ ॥ छ। [ अधरोत्तरम्, अधरोत्तरे ] अधरा च उत्तरा च । 'क्लीबे' (२।४।९७) ह्रस्वत्वम् । अनेन च विकल्पे ह्रस्वः । 'सर्वादयो ऽस्यादौ' ( ३।२।६१) पुंवत् । [य वडवे ] हयश्च वडव । प्रथमा औ । 'औता' (१।४।२० ) ए । [ अजा-श्व-वडवाः ] अजश्च अश्वश्च वडवा च । प्रथमा जस् । [पूर्व-पश्चिम ] पूर्वश्च पश्चिमश्च । [दक्षिणा ऽपरौ] दक्षिणश्चाऽपरश्च । पशु-व्यञ्जनानाम् ||३ |१ ।१३२ ।। [ पशुव्यञ्जनानाम् ] पशवश्च व्यञ्जनानि च = पशुव्यञ्जनानि, तेषाम् । [अश्वबलीवर्दम्, अश्वबलीवर्दी] अश्वश्च बलीवर्दश्च । विकल्पे । २७४ [वृष्णिस्तभम्, वृष्णिस्तभौ ] वृष्णिश्च मेटकः, स्तभश्च वोत्कटः वृष्णौ । [ महाजोरभ्रम्, महाजोरभ्रौ ] महत् । अज । महांश्चासावजश्च । 'जातीयैकार्थेऽच्चे:' ( ३।२।७० ) डा० आ । ' डित्यन्त्यस्वरादेः' (२।१।११४) अल्लोपः । महाजश्च उरभ्रश्च । विकल्पे औ । [दधिघृतम्, दधिघृते] दधि च घृतं च । विकल्पे औ । [शाकसूपम्, शाकसूपौ ] शाकश्च सूपश्च । विकल्पे औ । [ अश्वमहिषम् ] अश्वश्व महिषश्च = अश्वमहिषमित्यत्र 'नित्यवैरस्य' (३।१।१४१ ) इति नित्यमेकत्वविधिः । [ गो- नरौ ] गौश्च नरश्च । औ । [दधि-वारिणी] दधि च वारि च । औ । 'औरी' (१।४।५६ ) ई । 'अनाम् स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । [दध्युष्ट्रौ] दधि च उष्ट्रश्च ॥छ। Jain Education International = तरु-तृण धान्य- मृगपक्षिणां बहुत्वे ||३|१|१३३॥ [तरुतृणधान्यमृगपक्षिणाम् ] तरवश्च तृणानि च धान्यानि च मृगाश्च पक्षिणश्च तरुतृणधान्यमृगपक्षिणः, तेषाम् । For Private Personal Use Only = www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy