________________
२७३
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[उदितौ पुष्य-पुनर्वसू] पुष्यश्च पुनर्वसू च । [तिष्य-पुनर्वसू] तिष्यश्च पुनर्वसू च ।
[सिध्य-पुनर्वसू] सिध्यश्च पुनर्वसू च । प्रथमा औ । ‘इदुतोऽस्त्रेरीदूत्' (१।४।२१) ऊत् । पुनर्वसुशब्द: सदा द्विवचनान्तः समासे एकार्थे वा ।
[पुष्यपुनर्वसु] पुष्यश्च पुनर्वसू च । प्रथमा सि । ‘अनतो लुप्' (१।४।५९) सिलोपः । [आर्द्रा-पुनर्वसवः] आर्द्रा च पुनर्वसू च । प्रथमा जस् ।
[पुष्यमघाः] पुष्यश्च मघाश्च । प्रथमा जस् । मघ(घा)शब्दो बहुवचनान्तोऽप्यस्ति । पुष्येण चन्द्रयुक्तेन युक्तः कालः । ‘चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र०, “लुप् त्वप्रयुक्ते" अण्लोपः । पुष्ये जातः । 'जाते' (६।३।९८) अण्प्र० । 'बहुलाऽनुराधा-पुष्यार्थ-पुनर्वसु-हस्त-विशाखा-स्वाते प्' (६।३।१०७) अण्लोपः ।
पुष्यपुनर्वसवो माणवकाः] पुनर्वसु । पुनर्वसुभ्यां चन्द्रयुक्ताभ्यां युक्तः कालः । 'चन्द्रयुक्तात् काले०' (६।२।६) अणप्र० "लुप् त्वप्रयुक्ते” अण्लोपः । पुनर्वस्वोश्च जात (?) (पुनर्वस्वोर्जातौ) । म 'जाते' (६।३।९८) अण्प्र० । 'बहुला-ऽनुराधापुष्यार्थ-पुनर्वसु-हस्त-विशाखा-स्वातेर्लुप्' (६।३।१०७) अणलोपः । [पुष्यपुनर्वसवो मुग्धाः] पुष्यः पुनर्वसू येषां ते = पुष्यपुनर्वसवो मुग्धाः ।।छ।।
विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ।।३।१।१३०।। [विरोधिनाम]+ विरोधो विद्यते येषां ते = विरोधिनः । 'अतोऽनेकस्वरात' (७।२।६) इनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपस्तेषाम् ।
[अद्रव्याणाम्] 0 न द्रव्याणि = अद्रव्याणि । 'नञत्' (३।२।१२५) न०→अ०, तेषाम् । [सुख-दुःखम्, सुख-दुःखे] सुखं च दुःखं च, द्वितीये औ सर्वत्र । [शीतोष्णम्] शीतं च उष्णं च । [जनन-मरणम्, जनन-मरणे] जननं च मरणं च । [लाभाऽलाभम्, लाभाऽलाभौ] लाभश्च अलाभश्च । [संयोगविभागम, संयोगविभागौ] संयोगश्च विभागश्च । [रूप-रस-गन्ध-स्पर्शाः] रूपश्च रसश्च गन्धश्च स्पर्शश्च । प्रथमा जस् ।
[काम-क्रोधौ] कामश्च क्रोधश्च । औ । - [सुखदुःखाविमौ ग्रामौ] सुखं च दुःखं च, प्रथमा औ । इदम् प्रथमा औ । 'आ द्वेरः' (२११४१) म० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ‘दो मः स्यादौ' (२।१।३९) द०→म० । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ ।
[शीतोष्णे उदके] शीतं च उष्णं च । प्रथमा औ । 'औरीः' (१।४।५६) ई । 'अवर्णस्येवर्णादि०' (१।२।६) ए । [बुद्धि-सुख-दुःखानि बुद्धिश्च सुखं च दुःखं च । प्रथमा जस् । 'नपुंसकस्य शिः' (११४१५५) शि०→इ० । 'स्वराच्छौ'
P卐 ‘भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प० । P + विरोधो विद्यते येषां तानि = विरोधीनि, तेषाम् । P 0 न विद्यते द्रव्यं प्रतिपाद्यतया येषां तानि, तेषाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org