SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। २७२ [इन्द्रौ] इन्द्रश्च इन्द्राणी च । विरुणौ] वरुणस्य भार्या । 'वरुणेन्द्र-रुद्र-भव-शर्व०' (२।४।६२) डी-आनन्ते च । वरुणश्च वरुणानी च । [भवौ] भवस्य भार्या । 'वरुणेन्द्र-रुद्र-भव०' (२।४।६२) ङी - आनन्ते च । भवश्च भवानी च । [शौं] शर्वस्य भार्या । 'वरुणेन्द्र-रुद्र-भव-शर्व०' (२।४।६२) डी-आनन्ते च । शर्वश्च शर्वाणी च । [रुद्रौ] रुद्रस्य भार्या । 'वरुणेन्द्र-रुद्र०' (२।४।६२) ङी - आनन्ते च । रुद्रश्च रुद्राणी च । [मृडौ] मृडस्य भार्या । 'वरुणेन्द्र-रुद्र-भव-शर्व-मृडादान् चान्तः' (२।४।६२) डी-आनन्ते च । मृडश्च मृडानी च, तन्मते एकशेषः ।।छ।। ग्राम्याशिशुद्विशफसङ्के स्त्री प्रायः ।।३।१।१२७।। [ग्राम्याशिशुद्विशफसड्ने] ग्रामे भवाः = ग्राम्याः । 'ग्रामादीनञ् च' (६।३।९) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । न शिशवोऽशिशवः । 'नञत्' (३।२।१२५) न० अ० । द्वौ शफौ खुरौ येषां ते = द्विशफाः । ग्राम्याश्च तेऽशिशवश्च = ग्राम्याशिशवः । ग्राम्याशिशवश्च ते द्विशफाश्च = ग्राम्याशिशुद्विशफाः । ग्राम्याशिशुद्विशफानां सङ्गः = ग्राम्याशिशुद्विशफसफस्तस्मिन् । [प्रायः] प्रायस् । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [मेष्य इमाः] मेषाश्च मेष(ष्य)श्च = मेष्यः । [महिष्य इमाः] महिषाश्च महिष्यश्च = महिष्यः, अनेन स्त्रीशेषः । [इमे रुखः] रुरवश्चेमे रुरवश्चेमाः = इमे रुरव इत्यादिषु सर्वेषु 'पुरुषः स्त्रिया' (३।१।१२६) पुरुषशिष्यते । [इमे मनुष्याः] मनुष्यश्चेमा मनुष्याश्चेमे = इमे मनुष्याः । [गोबलीवर्दम गावश्च बलीवर्दाश्च = गोबलीवर्दम् । [अजाऽविकम] अजश्च आ(अ)विश्च । 'यावादिभ्यः कः' (७।३।१५) कप० । समाहारद्वन्द्वमेतद्वाक्यम्, समाहारस्यैतल्लक्षणम्, समाहारे एकत्वं नपुंसकत्वं चैतल्लक्षणं सूत्रे-उदाहरणेषु च सर्वत्र ज्ञेयम् ॥छ।। क्लीबमन्येनैकं च वा ।।३।१।१२८|| [एकं च वा] एकमेकार्थं च समाहारं चेत्यर्थः, एकशेष इति चकाराद् वर्त्तते, पक्षे इतरेतरद्वन्द्वो भवति । [शुक्लं शुक्लानि वा] शुक्लं च शुक्लश्च शुक्ला च । शुक्लं अत्र त्रिङ्गत्रयेण वाच्यम् । [शुक्ले] शुक्लं च शुक्लं च = शुक्ले । अत्र क्लीबस्य क्लीबेन सह वाक्यम् । 'स्यादावसंख्येयः' (३।१।११९) एकशेषः । [हिमहिमान्यौ] हिम । महद्धिमं = हिमानी । 'यव-यवना-ऽरण्य-हिमाद् दोष-लिप्युरु-महत्त्वे' (२।४।६५) डी-आन् चान्ते । हिमं च हिमानी च = हिमहिमान्यौ । [अरण्यारण्यान्यौ] अरण्य । महदरण्यं = अरण्यानी । 'यव-यवना-ऽरण्य-हिमाद् दोष-लिप्युरु-महत्त्वे' (२।४।६५) ङीआनन्ते च । अरण्यं च अरण्यानी च । केवलं क्लीवाक्लीबभेदोऽस्त्यर्थभेदोऽपि (तेन) नैकशेषः ।।छ।। पुष्यार्थाद् भे पुनर्वसुः ।।३।१।१२९।। [पुष्यार्थात् पुष्योऽर्थो यस्याऽसौ पुष्यार्थस्तस्मात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy