SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ [अर्जुनः कार्तवीर्यः] कृतवीर्यस्याऽपत्यम् । [ दीर्घश्चारायणः ] चा (च) रस्याऽपत्यं वृद्धं = चारायण: । 'नडादिभ्य आयनण्' (६।१।५३) आयनप्र० आयन । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [कृष्णसर्पः ] कृष्णश्चासौ सर्पश्च । [लोहितशालिः ] लोहितश्चासौ शालिश्च । [गौरखरः ] गौरश्चासौ खरश्च । [लोहिताहिः] लोहितश्चासावहिश्च । [ नरसिंहः ] नरश्चासौ सिंहश्च । [पुरुषमृगः ] पुरुषश्चासौ मृगश्च । [बकटिट्टिभः ] बकश्चासौ टिट्टिभश्च । [ नकुलसर्पः ] नकुलश्चासौ सर्पश्च । [ पक्षिमार्जारः ] पक्षी चासौ मार्जारश्च । [कुक्कुटसर्पः ] कुक्कुटश्चासौ सर्पश्च । भूयोऽवयवाभिधानश्च प्राधान्याद् विशेष्यत्वमितरस्य तु विशेषणत्वम् ॥ छ ॥ २४८ पूर्वकालैक-सर्व-जरत्-पुराण- नव- केवलम् ||३|१|९७ ।। [पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ] पूर्वः कालो यस्य सः पूर्वकालः, पूर्वकालश्च एकश्च सर्वश्च जरंश्च पुराणश्च नवश्च केवलश्च = पूर्वकालैकसर्वजरत्पुराणनवकेवलम् । [ खातानुलिप्तः ] 'ष्णांक् शौचे' (१०६४ ) ष्णा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्त्रा । 'निमित्ताभावे० ' ( न्या. सं० वक्ष० १/२९ / सूत्र ) त्रा । स्नाति स्म । 'गत्यर्था - ऽकर्मक-पिब-भुजेः ' ( ५1१1११) क्तप्र० । अनु 'लिपत् उपदेहे' ( १३२४) लिप् । अनुलिप्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । पूर्वं स्रातः पश्चादनुलिप्तः । [लिप्तवासितः ] पूर्वं लिप्तः पश्चाद् वासितः । [कृष्टमतीकृता भूमिः ] अमता मता कृता = : मतीकृता । कृभ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याSनव्ययस्य' ( ४ | ३ | १११ ) ई । पूर्वं कृष्टा पश्चान्मतीकृता । [छिन्नप्ररूढो वृक्षः ] पूर्वं छिन्नः पश्चात् प्ररूढः । [ एकशाटी] शाट 'गौरादिभ्यो मुख्यान्डी : ' (२।४।१९ ) ङी । एका शाटी । 'पुम्वत् कर्मधारये ' ( ३।२।५७) पुंवत् । [एकर्षयः] एके च ते ऋषयश्च । [ एकचौरः ] एकश्चासौ चौरश्च । [ एकधनुर्धरः ] एकश्चासौ धनुर्धरश्च । [ सर्वशैलाः ] सर्वे च ते शैलाश्च । [सर्वरात्रः] सर्वा चासौ रात्रिश्च । 'संख्यातैक- पुण्य- वर्षा -दीर्घाच्च रात्रेरत्' ( ७।३।११९) अत्समासान्तः । 'अवर्णेवर्णस्य' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy