SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४७ [कृष्णतिलाः] कृष्णाश्च ते तिलाश्च । [पुङ्गवः] पुमांश्चासौ गौश्च = पुङ्गवः । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४।७० ) अव् । [मेषिकगवी] मेषिका चासौ गौश्च । 'पुम्वत् कर्मधारये ' ( ३।२।५७) पुम्वत् । 'निमित्ताभावे० ' (न्या० स०१ / २९ ) इकारो निवर्त्तते । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । ' जातेरयान्त०' (२।४।५४ ) ङी । तक्षकः सर्पः, लोहितस्तक्षक इत्यत्र यथा नीलोत्पलमित्यत्र नीलशब्देन पीतादयो व्यवच्छिद्यन्ते, यथा उत्पलं किं विशिष्टम् ? नीलम्, तथा नीलं किं विशिष्टम् ? उत्पलम्, द्रव्यान्तराद् व्यवच्छेदः, तथा तत्र तद्यथा सर्प इत्युक्ते सर्पः कः ( ? ) तक्षकः, सर्पान्तराद् व्यवच्छेदः, तथा तक्षकः कः ? इति न भवति यतः श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [आम्रवृक्षः ] आम्रश्चासौ वृक्षश्च । [ शिंशपावृक्षः ] शिंशपा चासौ वृक्षश्च । [ अस्तपर्वतः ] अस्तश्चासौ पर्वतश्च, अस्ताद्रिरस्तः कथ्यते । [ तक्षकाहिः ] तक्षकश्चासावहिश्च तक्षकशब्देन तक्षकसामर्थ्यं वाच्यम्, तस्माद् व्यवच्छेद (:) क्रियते अहिशब्देन । [शेषाहिः ] शेषश्चासावहिश्च । [ अस्तपर्वतः ] अस्तस्य पर्वतः । [ उदयपर्वतः ] उदयस्य पर्वतः । यत उक्तमभिधानचिन्तामणी - ग्रावा पर्वतभूधभूधरधराहार्या नगोऽथोदयः । पूर्वाद्रिः चरमाद्रिरस्तः उदगद्रिस्त्वद्रिराज् मेनका । प्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः । [ खञ्जकुण्टः कुण्टखञ्जः ] खञ्जश्चासौ कुण्टश्च । [शुक्लकृष्णः, कृष्णशुक्लः ] शुक्लश्चासौ कृष्णश्च । [ रोहितपाण्डुः, पाण्डुरोहितः ] रोहितश्चासौ पाण्डुश्च । [ हरितबभ्रुः बभ्रुहरितः] हरितश्चासौ बभ्रुश्च । [पूर्वोत्तरा] पूर्वा चासावुत्तरा च । [उत्तरपूर्वा ] उत्तरा चासौ पूर्वा च । [दक्षिणपूर्वा ] दक्षिणा चासौ पूर्वा च । [पूर्वदक्षिणा विदिक्] पूर्वा चासौ दक्षिणा च । सर्वत्र 'सर्वादयोऽस्यादौ' ( ३।२।६१) पुंवद्भावः । [पाचकपाठकः, पाठकपाचकः पुरुषः ] पाचकश्चासौ पाठकश्च । [कृष्णसारङ्गः ] कृष्णश्चासौ सारङ्गश्च समुदायवाचित्वादित्यर्थः, कृष्णादिशब्दानामवयववाचित्वेन । [ रामो जामदग्न्यः ] जमदग्नेरपत्यम् । 'गगादेर्यञ्' (६।१।४२ ) यञ्प्र० य । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७|४|६८) इलोपः । फ श० म० न्या० - 'ओदौतोऽवाव्' (१।२।२४) अव् । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy