________________
अथ तृतीयाऽध्यायस्य प्रथमः पाद: ।।
२४६
कृयेनावश्यके ।।३।१।९५।। कृधेन] कृच्चासौ यश्च = कृद्यस्तेन, कृतो यः = कृद्यस्तेन वा ।
[मासदेयम्] 'डुदांग्क् दाने' (११३८) दा । दीयते = देयम् । ‘य एच्चातः' (५।१।२८) यप्र० - आ०-→ए० । मासेऽवश्यं देयम् ।
[संवत्सरदेयम्] संवत्सरेऽवश्यं देयम् ।
[पूर्वाहणेगेयम्] के (३६) - ‘गै शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । गीयते = गेयम् । 'य एच्चातः' (५।१।२८) यप्र० - आ०→ए० । पूर्वाहणेऽवश्यं गेयम् ।
[प्रातरध्येयम् अधि 'इंड्क् अध्ययने' (११०४) इ । अधीयते । ‘य एच्चातः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । प्रातरमवश्यमध्येयम् ।
[ग्रामदेयम] ग्रामेऽवश्यं देयम् । [नगरदेयम्] नगरेऽवश्यं देयम् ।
[मासे पित्र्यम्] पितृ । पितुरागतम् । 'पितुर्यो वा' (६।३।१५१) यप्र० । पिता देवताऽस्य । 'वायवृतु-पित्रुषसो यः' (६।२।१०९) यप्र० । पितरि साधुः । 'तत्र साधौ' (७।१।१५) यप्र० । 'ऋतो रस्तद्धिते' (१।२।२६) र० ।
[मासे स्तुत्यः] स्तु (३।१।१) सूत्रवत् । स्तूयते । 'दृ-वृग्-स्तु-जुषेति-शासः' (५।१।४०) क्यप्प०→य । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[मासे पाक्यम्] 'डुपचींष् पाके' (८९२) पच् । पच्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप०→य । ‘णिति' (४१३५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च-जोः क-गौ घिति (४।१।१११) च०→क० ।
[मासे दातव्या भिक्षा] 'डुदांग्क् दाने' (११३८) दा । दीयते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'आत्' (२।४।१८) आप्प्र०→आ ।
संवत्सरकर्तव्यमिति तु बहुलाधिकारात् ।
'डुकंग करणे (८८८) कृ । क्रियते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।।छ।।
विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ।।३।१।९६।। [विशेषणम] 'शिष्लॅप विशेषणे' (१४९२) शिष, विपूर्व० । विशिष्यतेऽनेनेति विशेषणम् । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र०→अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[विशेष्येणैकार्थम्] विशिष्यते । 'ऋवर्ण-व्यञ्जनाद् ध्यण' (५।१।१७) घ्यणप्र०→य । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए, तेन । एकोऽर्थो यस्य तद् एकार्थम् । एकार्थस्य भावः ।
[कर्मधारयः] कर्मन् ‘धृग् धारणे' (८८७) धृ । धरन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र०-→इ । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । धारयतीति । 'साहि-साति-वेधुदेजि-धारि-पारि-चेतेरनुपसर्गात्' (५।१५९) शप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय । कर्मणो धारयः = कर्मधारयः ।
नीलोत्पलम नीलं च तदुत्पलं च । एकस्मिन्नर्थे इति कोऽर्थः ? नीलं नीलत्वे उत्पलमुत्पलत्वे एकस्मिन नीलोत्पले ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org