SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४५ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । तत्र च अहोरात्रांशाश्च = तत्राहोरात्रांशम् । [तत्रकृतम्] क्रियते स्म । तत्र कृतम् । [पूर्वाह्णकृतम्] पूर्व-अहन् । पूर्वमह्नः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तोऽह्ननिपातः । 'अतोऽह्नस्य' (२।३।७३) णत्वम् । पूर्वाह्ण कृतम् । [अपराह्णकृतम्] अपरमह्नः, अपराणे कृतम् । [पूर्वरात्रकृतम्] पूर्वो(4) रात्रेः । ‘संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९) अत्समासान्तः । + पूर्वरात्रे कृतम् । [अपररात्रकृतम्] अपरो(रं) रात्रेः । ‘संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९) अत्समासान्तः । ‘अवर्णेवर्णस्य' (७।४।६८) इलोपः । अपररात्रे कृतम् । [तात्रकृतिः] तत्रकृतस्याऽपत्यम् । अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [अन्यजन्मकृतं कर्म] अन्यजन्मना कृतम् । [शुक्लपक्षे कृतम्] शुक्लश्चासौ पक्षश्च = शुक्लपक्षस्तस्मिन् । [अहनि भुक्तम्] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'क्तेऽनिटश्च-जोः०' (४१११११) ज०→ग० (?) ('च-जः क-गम्' (२११८६) ज०→ग०) । 'अघोषे प्रथमोऽशिट:' (१३५०) ग०→क० । [एतत्तु ते दिवा नृत्तं, रात्रौ नृत्तं तु द्रक्ष्यसि] 'नृतैच् नर्तने' (११५२) नृत् । नर्त्तनम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र०→त । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । 'दृशुं प्रेक्षणे' (४९५) दृश् । भविष्यन्ती स्यति । 'अः सृजि-दृशोऽकिति' (४।४।१११) अकारागमः । 'इवर्णादे०' (१।२।२१) रत् । 'यज-सृजमृज-राज०' (२११८७) श०→ष० । 'ष-ढोः कस्सि' (२११६२) १०→क० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । [कथं रात्रिवृत्तं, सन्ध्यागर्जितमिति] रात्रौ वृत्तम् । सन्ध्यायां गर्जितम् । बहुलाधिकारात् समासः । [तत्र भोक्ता] भुनक्तीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र०→तृ । प्रथमा सि । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा | 'डित्यन्त्यस्वरादेः' (२११११४) अन्त्यस्वरादिलोपः । [पूर्वाणे भोक्ता] भोक्ता पूर्ववत् ।।छ।। नाम्नि ||३।१।९४॥ [अरण्येतिलकाः] तिलानां तुल्याः । 'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः' (७।११०८) कप्र० । अरण्ये तिलकाः । 'अद् व्यञ्जनात् सप्तम्या बहुलम्' (३।२।१८) इत्यलुप्समासः । [स्तूपेशाणः] स्तूपे २ शाणो देयः । 'प्राक्कारस्य व्यञ्जने' (३।२।१९) अलुप्समासः । [मुकुटेकार्षापणः] मुकुटे २ कार्षापणो देयः । 'प्राक्कारस्य व्यञ्जने' (३।२।१९) अलुपसमासः । [हलेद्विपदिका) द्वि-पाद । द्वौ द्वौ पादौ ददाति । 'संख्यादेः पादादिभ्यो दान-दण्डे चाकल लुक च' (७।२।१५२) अकल् प्र० - पाद् । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।११०२) पद् । 'आत्' (२।४।१८) आप्प०-→आ । 'अस्याऽयत्-तत्क्षिपकादीनाम्' (२।४।१११) इ । ततः मध्यस्थः समासः ।।छ।। P卐 पूर्वाह्ण क्रियते स्म । P + पूर्वरात्रे क्रियते स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy