________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
२४४
[पिण्डीशूरः] पिण्ड्यामेव शूरः । [पितरिशूरः] पितर्येव शूरः । [मातरिपुरुषः] मातर्येव पुरुषः । [गर्भधीरः] गर्भे एव धीरः । [गर्भशूरः] गर्भे एव शूरः । [गर्भसुहितः] गर्भे एव सुहितः । [गर्भेतृप्तः] गर्भे एव तृप्तः । [गर्भेदृप्त गर्भे एव दृष्टः (दृप्तः) । [कर्णेटिरिटिरिः] कर्णे एव टिरिटिरिः । [कर्णेचुरुचुरुः] कर्णे एव चुरुचुरुः । [कर्णेटिरिटिरा] कर्णे एव टिरिटिरा । [कर्णेचुरुचुरा] कर्णे एव चुरुचुरा । [व्रणकृमिः] व्रणे कृमिरिव । [गृहसर्पः] गृहे सर्प इव । [गृहकलविङ्कः] गृहे कलविङ्क इव ।।छ।।
क्तेन ॥३१९२॥ [भस्मनिहुतम्] 'हुंक् दानादनयोः' (११३०) हु । हूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । भस्मनि हुतमिव = भस्मनिहुतम् ।
[प्रवाहेमूत्रितम्] 'मूत्रण मूत्रणे (?) (प्रस्रवणे)' (१९००) मूत्र । 'चुरादिभ्यो०' (३।४।१७) णिच्प्र०→इ । मूत्र्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र०→त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'णेरनिटि' (४।३।८३) णिचुलोपः । प्रवाहे मूत्रितमिव ।
[उदकेविशीर्णम्] कू (१५२९) - मू (१५३०) - 'शृश् हिंसायाम्' (१५३१) शू, विपूर्व० । विशीर्यते स्म । 'क्तक्तवतू' (५।११७४) क्तप्र०→त । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त०→न० । 'ऋतां विडतीर्' (४।४।११६) इर् । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । 'रघुवर्णान्नो ण०' (२।३।६३) न०→ण० । उदके विशीर्णमिव ।
[अवतप्तेनकुलस्थितम्] 'तपं संतापे' (३३३) तप, अवपूर्व० । अवतपति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१११) क्तप्र०→त । स्था-स्थानं = स्थितम् । 'क्लीबे क्तः' (५।३।१२३)क्तप्र०→त । 'दो-सो-मा-स्थ इ:' (४।४।११) इ ।+ नकुलानां स्थितं = नकुलस्थितम् । अवतप्ते नकुलस्थितमिव ।।छ।।
तत्राहोरात्रांशम् ।।३।१।९३।। तत्राहोरात्रांशम] अहश्च रात्रिश्च = अहोरात्रम् । 'ऋक्सामर्यजुष-धेन्वनडुह-वाङ्मनसा-5होरात्र-रात्रिंदिव-नक्तंदिवाऽहर्दिवोर्वष्ठीव-पदष्ठीवा-ऽक्षिभुव-दारगवम्' (७।३।९७) अतसमासान्तोऽहोरात्रनिपातः । अहोरात्रस्यांऽशाः = अहोरात्रांशाः,
P॥
अवतप्यते स्म ।
P + नकुलस्य स्थितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org