________________
२४३
नदीं ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [गेहेनर्दी] ‘नर्द शब्दे' (३०२) नद् । नर्दत (ति) इति । 'ग्रहादिभ्यो णिन् ' ( ५।१।५३) णिन्प्र० - इन् । गेहे एव
[गेहेनर्ती] 'नृतैच् नर्त्तने' (११५२) नृत् । नृत्यत (ति) इत्येवंशीलः । ' अजातेः शीले' (५।१।१५४) णिन्प्र० - इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । गेहे एव नर्ती ।
[गेहेविजिती ] गेहमेव विजितमनेन । 'इष्टादेः' (७।१।१६८) इन्प्र० ।
[गेहेविचिती] 'चिंग्ट् चयने' (१२९०) चि, विपूर्व० । विचीयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्रत । गेहमेव विचितमनेन । 'इष्टादेः' (७।१।१६८) इन्प्र० ।
[गेहेव्यालः ] गेहे एव व्यालः ।
[गेहेपटुः ] गेहे एव पटुः ।
[गेहेपण्डितः] गेहे एव पण्डितः । [गेहेप्रगल्भः ] गेहे एव प्रगल्भः । [ गोष्ठेशूरः ] गोष्ठे एव शूरः । [गोष्ठेक्ष्वेडी ] गोष्ठे एव क्ष्वेडी ।
[गोष्ठेनर्दी] गोष्ठे एव नर्दी ।
[गोष्ठेविजिती] गोष्ठमेव विजितमनेन । 'इष्टादे:' ( ७।१।१६८) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः ।
[गोष्ठेव्यालः ] गोष्ठे एव व्यालः ।
[गोष्ठेपटुः ] गोष्ठे एव पटुः । [गोष्ठेपण्डितः ] गोष्ठे एव पण्डितः । [गोष्ठेप्रगल्भः ] गोष्ठे एव प्रगल्भः । [उदुम्बरमशकः ] उदुम्बरे मशक इव । [ उदुम्बरकृमि: ] उदुम्बरे कृमिरिव । [कूपकच्छपः ] कूपे कच्छप इव । [कूपमण्डूकः] कूपे मण्डूक इव ।
[अवटकच्छपः ] अवटे कच्छप इव ।
[अवटमण्डूकः ] अवटे मण्डूक इव ।
[उदपानमण्डूकः ] उदकस्य पानं यत्र स आहवेऽर्थे 'नाम्न्युत्तरपदस्य च ' ( ३।२।१०७) कलुप् । उदपाने मण्डूक इव ।
[ नगरकाकः ] नगरे काक इव ।
[ नगरवायसः ] नगरे वायस इव ।
[ नगरश्वा ] नगरे वेव ।
[गेहेमेही] 'मिहं सेचने' ( ५५१) मिह् । मेहतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० इन् 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । गेहे एव मेही ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org