SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ [पृथिवीप्रणतः ] पृथिव्यां प्रणतः । [ अन्तेगुरुः ] अन्ते गुरुः । ' मध्याऽन्ताद् गुरौ ' ( ३।२।२१) अलुक् ( प्) समासः । एवमग्रेऽपि । [ मध्येगुरुः ] मध्ये गुरुः । ' मध्याऽन्ताद् गुरौ ' ( ३।२।२१) अलुक् (प् ) समासः ॥ छ || [सिंहाद्यैः] सिंह आद्यो येषां ते [ समरसिंहः ] समरे सिंह इव । [रणव्याघ्रः ] रणे व्याघ्र इव । [भूमिवासवः] भूमौ वासव इव । [ कलियुधिष्ठिरः ] कलौ युधिष्ठिर इव । सिंहाद्यैः पूजायाम् ||३।१ ।८९ ।। सिंहाद्याः, तैः । = काकाद्यैः क्षेपे ||३|१ |९० ॥ [ काकाद्यैः ] काक आद्यो येषां ते = काकाद्याः तैः । [तीर्थकाकः] तीर्थे काक इव । [ तीर्थध्वाङ्क्षः ] तीर्थे ध्वाङ्क्ष इव । [ तीर्थवायसः ] तीर्थे वायस इव । [ तीर्थबकः ] तीर्थे बक इव । [ तीर्थश्वा ] तीर्थे वेव । [ तीर्थसारमेयः] सरमाया अपत्यम् । 'ड्याप्-त्यूङ: ' ( ६ |१| ७०) एयण्प्र० एय । वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । तीर्थे सारमेय इव । [ तीर्थकुक्कुटः ] तीर्थे कुक्कुट इव । [तीर्थशृगालः ] तीर्थे शृगाल इव ॥ छ ॥ Jain Education International पात्रेसमितेत्यादयः || ३।१।९१ ।। [ पात्रेसमितेत्यादयः ] पात्रेसमित (ता) इति आदिर्येषां ते । [पात्रेसमिताः ] पात्र एव समिताः = पात्रेसमिताः, अत एव निर्देशादलुप्समासः । २४२ [पात्रेबहुलाः ] पात्र एव बहुलाः । [ गेहेशूरः ] गेहे एव शूरः । [गेहेदाही ] 'दहं भस्मीकरणे' (५५२) दह् । दहतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० -→इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । दहनं = दाहः । ' भावा- ऽकर्त्रीः' (५।३।१८) घञ्प्र० अ । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । दाहोऽस्याऽस्तीति । 'अतोऽनेकस्वरात्' (७।२।६) इन् । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । गेह एव दाही | [गेहेक्ष्वेडी] क्ष्वेडा (डो)ऽस्याऽस्तीति । 'अतोऽनेकस्वरात्' (७।२१६) इन्प्र० । 'अवर्णवर्णस्य' (७।४।६८) अवर्णलोपः । गेहे एव क्ष्वेडी । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy