SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४१ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [नदीघोषः] 'घुष शब्दे' (४९७) घुष । घोषणं = घोषः । 'भावाऽकोंः ' (५।३।१८) घप्र०→अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । नद्या घोषः । [वचनप्रामाण्यम्] प्रमाणस्य भावः । वचनस्य प्रामाण्यम् । [शब्दाधिक्यम्] अधिकस्य भावः । शब्दानामाधिक्यम् । [वाङमाधुर्यम] मधुरस्य भावः । ‘पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०→य (?) ('वर्णदृढादि०' (७१५९) ट्यणप्र०→य) । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । वाचो माधुर्यम् । एषूदाहरणेषु षष्ठीसमासः कार्यः । [घटवर्णः] घटस्य वर्णः । [कन्यारूपम्] कन्याया रूपम् । [कपित्थरसः] कपित्थस्य रसः । चिन्दनगन्धः] चन्दनस्य गन्धः । [स्तनस्पर्शः] स्तनयोः स्पर्शः । [कण्टकस्य तैक्ष्ण्यम्] तीक्ष्ण । तीक्ष्णस्य भावः । 'पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । अवर्णेवर्णस्य (७।४।६८) अलोपः । [वृषलस्य धाष्टर्यम्] धृष्ट । धृष्टस्य भावः । ‘पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०-→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [कुसुमसौरभ्यम् सुरभस्य भावः । पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०→य(?) ('वर्णदृढादि०' (७।११५९) ट्यणप्र०-→य) । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः औ० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । कुसुमस्य सौरभ्यम् । [चन्दनसौरभम्] व(चन्दनस्य सौरभम् ।।छ।। सप्तमी शौण्डायैः ।।३।११८८|| [शौण्डाद्यैः] शो(शौ)ण्ड आद्यो येषां ते = शो(शौ)ण्डाद्याः, तैः । [पानशौण्डः] शुण्डाया अयम् । 'तस्येदम्' (६।३।१६०) अणप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । ततो मध्यस्थः समासः कर्त्तव्यः । पाने प्रशक्तः शौण्डः = पानशौण्डः । [अक्षधूर्तः] अक्षेषु प्रशक्तो धूर्तः [इव] । [अक्षकितवः] अक्षेषु प्रशक्तः कितवः [इव] । [शिरःशेखरः] शिरसि शेखरः । [हस्तकटकः] हस्ते कटकः । [आपातरमणीयः] आपाते रमणीयः । [अवसानविरसः] अवसाने विरसः । [पृथिवीविदितः] पृथिव्यां विदितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy