SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। २४० = अस्वस्थाः, अस्वस्थाश्च ते गुणाश्च = अस्वस्थगुणाः, तैः ।। पटस्य शौक्ल्यम शुक्ल । शुक्लस्य भावः । 'पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप० (?) ('वर्ण-दृढादिभ्यष्ट्यण च वा' (७।१५९) ट्यणप्र०→य) 'वृद्धिः स्वरेष्वादे०' (७।४19) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [काकस्य कार्ण्यम्] कृष्ण । कृष्णस्य भावः । 'पति-राजान्तगुणाङ्ग' (७।१।६०) ट्यणप्र० (?) ('वर्ण-दृढादिभ्यष्ट्यण च वा' (७।११५९) ट्यणप्र०-→य) । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [गुडस्य माधुर्यम्] मधुर । मधुरस्य भावः । ‘पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०→य(?) । ('वर्ण-दृढादि०' (७।१।५९) ट्यणप्र०→य) । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [प्रक्रियालाघवम्] लघु । लघोर्भावः । “य्वृवर्णाल्लघ्वादेः' (७।१।६९) अण्प्र०→अ । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । प्रक्रियाया लाघवम् । [बुद्धिकौशलम] कुशलस्य भावः । 'युवादेरण' (७।११६७) अणप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । बुद्धयाः कौशलम् । [करणपाटवम्] करणस्य पाटवम् । [पुरुषसामर्थ्यम्] समर्थ । समर्थस्य भावः । 'पति-राजान्तगुणाङ्ग' (७।१।६०) ट्यणप्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । पुरुषस्य सामर्थ्यम् । [अङ्गसौष्ठवम्] सुष्ठु । सुष्टोर्भावः । अङ्गस्य सौष्ठवम् । [हस्तचापलम चपलस्य भावः । 'युवादेरण' (७।१।६७) अणप०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । हस्तस्य चापलम् । [वचनमार्दवम्] मृदोर्भावः । 'वृवर्णाल्लघ्वादेः' (७।१।६९) अण्प्र०-→अ । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । वचनस्य मार्दवम् । [उत्तरपदार्थप्राधान्यम] प्रधान । प्रधानस्य भावः । उत्तरपदार्थस्य प्राधान्यम । [क्रियासातत्यम्] सं(स)तत । सं(स)ततस्य भावः । 'पतिराजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०→य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । क्रियायाः सातत्यम् । [वर्तमानसामीप्यम] समीपस्य भावः । 'भेषजादिभ्यष्ट्यण' (७।२।१६४) ट्यणप्र०य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । वर्तमानस्य सामीप्यम् । [सत्सामीप्यम्] समीपस्य भावः । 'भेषजादिभ्यष्ट्यण' (७।२।१६४) ट्यणप्र०→य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । सतः = वर्तमानकालस्य सामीप्यम् । [अधिकरणैतावत्यम्] एतावत् । एतावतो भावः । 'पति-राजान्तगुणाङ्गराजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० →य । 'वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः ऐ । अधिकरणस्य ऐतावत्यम् ।। [प्रयोगान्यत्वम्] अन्यस्य भावः । 'भावे त्व तल्' (७।१५५) त्वप्र० । प्रयोगस्य अन्यत्वम् । [गतताच्छील्यम् तस्य शीलं = तच्छीलम् । तच्छीलस्य भावः । 'पति-राजान्तगुणाङ्ग०' (७।१।६०) ट्यणप्र०य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । गतस्य ताच्छील्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy