SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३९ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । ज्ञानेच्छाऽर्चार्थाऽऽधास्तेन ।।३।१।८६।। [ज्ञानेच्छाऽर्चार्थाऽऽधारक्तेन] ज्ञानं च इच्छा च अर्चा च = ज्ञानेच्छाऽर्चाः, ज्ञानेच्छाऽर्चा अर्थो(र्थाः) येषां ते = ज्ञानेच्छाऽर्चार्थाः, ज्ञानेच्छाऽर्चार्थाश्च आधारश्च = ज्ञानेच्छाऽर्चार्थाऽऽधारम्, ज्ञानेच्छाऽर्चार्थाधारे क्तः = ज्ञानेच्छाऽर्चाधारक्तः, तेन । राज्ञां ज्ञातः] 'ज्ञांश अवबोधने' (१५४०) ज्ञा । ज्ञायत इति ज्ञातः । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र०-→त । ___ [राज्ञां बुद्धः] 'बुधिं ज्ञाने' (१२६२) बुध् । बुध्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र०→त । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध०→द० । [राज्ञामिष्टः] ‘इषत् इच्छायाम्' (१४१९) इष् । इष्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र०→त । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त०→ट० । [राज्ञां मतः] 'मनिंच ज्ञाने' (१२६३) मन् । मन्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र०→त । 'यमि-रमिनमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४।२।५५) नलोपः । - [राज्ञामर्चितः] ‘अर्च(र्चि)ण पूजायाम्' (१९५४) अर्छ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । अर्च्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र०→त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सेटक्तयोः' (४।३८४) णिज्लोपः । [राज्ञां पूजितः] 'पूजण पूजायाम्' (१५८६) पूज् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । पूज्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र०→त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सेटक्तयोः' (४।३।८४) णिज्लोपः । [इदमेतेषां यातम] 'यांक प्रापणे' (१०६२) या । यानं = यातम् । [इदमेषां यातम्] ‘यांक प्रापणे' (१०६२) या । यानं = यातम् । [इदमेषामासितम] 'आसिक उपवेशने' (१११९) आस् । आसनमासितम् । [इदमेषां भुक्तम्] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोजनं = भुक्तम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र०-→त । 'क्तेऽनिटश्च जोः०' (४।१।१११) ज०→ग० ? ('च-जः क-गम्' (२।१।८६) ज०→ग०) । 'अघोषे प्रथमो०' (१।३।५०) ग रेक० । [इदमेषां पीतम्] पानं = पीतम् । ‘क्लीबे क्तः' (५।३।१२३) क्तप्र०→त । [राजपूजितः?] राज्ञा पूजितः । [राजमहितः?] अर्ह (५६४) - ‘मह पूजायाम्' (५६५) मह । महयते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र०-→त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । राज्ञा महितः । [राजसंमतः?] राज्ञा संमतः । कलहं स राममहितः कृतवान् ?] रामेण महितः ।।छ।। अस्वस्थगुणैः ।।३।१।८७॥ [अस्वस्थगुणैः] न स्व 'ष्ठ गतिनिवृत्तौ' (५) ष्ठ । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) स्था । स्वस्मिन् तिष्ठन्तीति । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र०→अ । 'इडेत्-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः । न स्वस्थाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy