________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
२३८
[चक्रधराणां पञ्चमः शान्तिः] 'शमू उपशमे' (१२३०) शम् । शम्यादित्याशास्यमानः = शान्तिः । 'तिक्कृतौ नाम्नि' (५।१७१) तिप० । 'अहन्-पञ्चमस्य क्वि-विङति' (४।१।१०७) दीर्घः ।
- [चक्रधराणां द्वितीयः सगरः] चक्र 'धृग् धारणे' (८८७) धृ । चक्रं धरन्तीति । 'अच्' (५।१।४९) अच्प्र०→अ, तेषाम् ।
[वासुदेवानां तृतीयः स्वयम्भूः] स्वयम् ‘भू सत्तायाम्' (१) भू । स्वयं भवतीति क्विप् स्वयम्भूः । 'दिद्युद्-ददृद्जगज्जुहू०' (५।२।८३) क्विप्प्र० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः ।
[रामस्य द्विषन] 'द्विषींक अप्रीतौ' (११२६) द्विषु । द्वेष्टीति । 'सुग्-द्विषार्हः सत्रि-शत्रु-स्तुत्ये' (५।२।२६) अतृश्प्र० →अत् । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१८९) तलोपः ।
[रावणस्य द्विषन] 'द्विषींक अप्रीतौ' (११२६) द्विष । द्वेष्टीति । 'सुग-द्विषार्हः सत्रि-शत्रु-स्तुत्ये' (५।२।२६) अतृप० →अत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घड्याब' (१।४।४५) सिलोपः । ‘पदस्य' (२११८९) तलोपः ।
[चैत्रस्य पचन] 'डुपचीं पाके' (८९२) पच् । पचतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०→अत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ‘दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
[अध्वगानां धावन्तः शीघ्रतमाः] अध्वन् ‘गम्लुं गतौ' (३९६) गम् । अध्वनि गच्छन्तीति । 'क्वचित्' (५।१।१७१) डप्र०- अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः, तेषाम् । 'धावूग् गति-शुद्धयोः' (९२०) धाव् । धावन्तीति 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०→अत् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा जस् । प्रकृष्टाः शीघाः = शीघ्रतमाः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प०→तम । प्रथमा जस् ।
[चैत्रस्य पक्ष्यन्] 'डुपचींष् पाके' (८९२) पच् । पक्ष्यतीति । ‘शत्रानशावेष्यति तु सस्यौ' (५।२१२०) शतृप्र० → अत् - स्य आदिः । 'च-जः क-गम्' (२।१८६) च०→क० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । क-षसंयोगे क्ष । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
चैत्रस्य पचमानः] पचते । 'शत्रानशावेष्यति०' (५।२।२०) आनश्प०→आन । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[चैत्रस्य पक्ष्यमाणः] पक्ष्यते । ‘शत्रानशा०' (५।२।२०) आनश्प्र०→आन - स्यपूर्व० । अतो म आने' (४।४।११४) मोऽन्तः । 'च-जः क-गम्' (२।१८६) च०→क० । 'नाम्यन्तस्था०' (२।३।१५) स०-→ष० । क-षसंयोगे क्ष ।
[इध्मवश्चनः] इमानां व्रश्चनः । [पलाशशातनः] पलाशानां शातनः ।
[शुकस्य माराविदस्य शब्द:] न 'विदक ज्ञाने' (१०९९) विद् । न वेत्तीति । 'नाम्युपान्त्य-प्री-कु-गृ-ज्ञः कः' (५।१५४) कप्र०→अ । मारस्याविदः = माराविदस्तस्य, शब्दः ।
सर्पिषः पीयमानस्य गन्धः] 'पां पाने' (२) पा । पीयते । 'शत्रानशावेष्यति०' (५।२।२०) आनशप्र०→आन । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'अतो म आने' (४।४।११४) मोऽन्तः, तस्य, गन्धः ।
सूत्रस्याधीयमानस्यार्थः] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते । 'शत्रानशा०' (५।२।२०) आनश्प्र० →आन । 'क्यः शिति' (३।४।७०) क्यप्र०→य । 'अतो म आने' (४।४।११४) मोऽन्तः, तस्य, अर्थः ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org