________________
२३७
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । क्रियाशब्दस्य कोऽर्थः ? अस्याऽयमर्थः - क्रियाशब्द एव, यो भर्तृशब्द: स न गृह्यते, यस्तु योगरूढः स न ग्राह्यः, तस्मिंश्च गृह्यमाणे सर्वं सुन्दरम् ।।छ।।
तृतीयायाम् ।।३।१।८४।। [आश्चर्यो गवां दोहोऽगोपालकेन] 'चर भक्षणे च' (४१०) चर्, आयूर्व० । आचर्यत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप०→य ? । ('चरेराङस्त्वगुरौ' (५।१।३१) यप्र०) । 'वर्चस्कादिष्ववस्करादयः' (३।२।४८) आश्चर्यः । 'दुहींक क्षरणे' (११२७) दुह् । दोहनं = दोहः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । न गोपालकोऽगोपालकः, तेन ।
[साध्विदं शब्दानुशासनमाचार्यस्य] शब्दानामनुशासनम् ।
[साध्वी कटचिकीर्षा चैत्रस्य] 'डुकंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४191१०४) दीर्घः । 'कृतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४191३) किर् द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘क-डश्च-ञ्' (४।१।४६) क०→च० । 'नाम्यन्तस्था०' (२।३।१५) स०→ष० । चिकीर्षणं = चिकीर्षा । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलोपः । 'आत्' (२।४।१८) आप्प्र०→आ । कटस्य चिकीर्षा छ।।
तृप्तार्थ-पूरणा-ऽव्यया-5तृश-शत्रानशा ।।३।१८५।। तृप्तार्थपूरणाऽव्ययाऽतृशशत्रानशा तृप्तोऽर्थो येषां ते = तृप्तार्थाः, तृप्तार्थाश्च पूरणश्च अव्ययानि च अतृश् च ॥ शतृश्च आनश् च = तृप्तार्थपूरणाऽव्ययाऽतृश्शत्रानश्, तेन ।
[फलानां तृप्तः] 'तृपौच प्रीतौ' (११८९) तृप् । + तृप्यते । 'ज्ञानेच्छाऽर्चाऽर्थ०' (५।२।९२) क्तप्र० →त ।
[फलानां सुहितः] सु 'डुधांग धारणे च' (११३९) धा । सुष्ठु धीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'धागः' (४।४।१५) “हि" आदेशः ।
[सक्तूनां पूर्णः] 'पृश् पालन-पूरणयोः' (१५३२) पृ । पूर्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त०→न० । 'ओष्ठ्यादुर्' (४।४।११७) उरादेशः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'रवर्णान्नो ण०' (२।२।६३) न०→ण० ।
[ओदनस्याशितः] * 'अशश भोजने' (१५५८) अश । अश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[पयसो धाणः] 'धे तृप्तौ' (३५) धै । 'आत् सन्ध्यक्षरस्य' (४।२।१) धा । धायति स्म । 'गत्यर्था-ऽकर्मक-पिबभुजेः' (५।१११) क्तप्र०→त । ऋ-ही-घ्रा-धा-त्रोन्द-नुद-विन्तेर्वा (४।२७६) त०→न० ।
[तीर्थकराणां षोडशः] तीर्थ 'डुकुंग करणे' (८८८) कृ । तीर्थं कुर्वन्तीति । ‘हेतु-तच्छीला०' (५।१।१०३) टप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर्, तेषाम् । षष्-दशन् । षड्भिरधिका दश । एकादश-षोडश-षोडन्-षोढा-षड्ढा (३।२।९१) षोडश निपात्यते । षोडशानां पूरणः । 'संख्यापूरणे डट्' (७।११५५) डट्प्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । P4 शता च । P + तृप्यतीति । * श० म० न्या० - आयूर्वात् 'अशश् भोजने' इत्यत आश्नातीति क्ते आशित इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org