________________
२४९
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
(७।४।६८) इलोपः । सर्वेऽपि रात्र्यवयवा गृह्यन्त इत्यर्थः ।
[सर्वान्नम् सर्वं च तदन्नं च । [सर्वशुक्लः] सर्वश्चासौ शुक्लश्च । [जरदगवः] जरंश्चासौ गौश्च । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[जरद्राजः] जरंश्चासौ राजा च । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः । ‘नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः ।
[जरद्वलिनः] जरंश्चासौ वलिनश्च । ‘नोऽङ्गादेः' (७।२।२९) नप्र० ।
[पुराणवैयाकरणः] व्याकरणं वेत्त्यधीते वा । 'तद्वेत्त्यधीते' (६।२।११७) अण्प०→अ । 'लोकात्' (१।१।३) “व्" पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७।४५) ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । पुराणश्चासौ वैयाकरणश्च ।
[नवोदकम् नवं च तदुदकं च । [नवोक्तिः] नवा चासावुक्तिश्च । [केवलजरत्] केवलं च तद् जरच्च । [केवलपुराणम्] केवलं च तत् पुराणं च । [स्नात्वाऽनुलिप्तः] स्ना । स्नानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र०→त्वा ।।छ।।
दिगधिकं संज्ञा-तद्धितोत्तरपदे ।।३।१९८।।
[दिगधिकम्] दिक् च अधिकं च = दिगधिकम् । [संज्ञातद्धितोत्तरपदे] संज्ञा च तद्धितश्च उत्तरपदं च = संज्ञातद्धितोत्तरपदम, तस्मिन् । [दक्षिणकोशलाः] दक्षिणाः कोशलाः = दक्षिणकोशलाः । [उत्तरकोशलाः] उत्तराः कोशलाः । [दश्रिणपञ्चालाः] दक्षिणाः पञ्चालाः ।
[पूर्वेषुकामशमी] 'कमूङ कान्तौ' (७८९) कम् । 'कमेर्णि' (३।४।२) णिप्र०→इ । “ज्णिति' (४।३५०) उपान्त्यवृद्धिः । कामयते । 'शीलि-कामि-भक्ष्याचरीक्षि-क्षमो णः' (५।१७३) णप्र०→अ । 'णेरनिटि' (४।३।८३) णिङ्लोपः । इषूणां कामस्तं शाम्यतीति । 'कर्मणोऽण्' (५।१७२) अणप०→अ । 'अणजेयेकण्-नञ-स्नञ्-टिताम्' (२।४।२०) डी । पूर्वा चासौ इषुकामशमी च । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् ।
[अपरेषुकामशमी] अपरा चासौ इषुकामशमी च । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् ।
[पूर्वकृष्णमृत्तिकाः] मृद् । मृदेव = मृत्तिका । ‘मृदस्तिकः' (७।२।१७१) तिकप्र० । 'आत्' (२।४।१८) आप्प्र० →आ । पूर्वा चासौ कृष्णमृत्तिका च । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् ।।
[अपरकृष्णमृत्तिकाः] अपरा चासौ कृष्णमृत्तिका च । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । विग्रहवाक्यं समा(सा)रंभकं वाक्यमित्यर्थः ।
P卐 अधिकश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org