________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
२५०
[दाक्षिणशालः] दक्षिणस्यां शालायां भवः । 'दिक्पूर्वादनाम्नः' (६।३।२३) णप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलोपः ।
[पौर्वशालः] पूर्वस्यां शालायां भवः । 'दिक्पूर्वादनाम्नः' (६।३।२३) णप्र०अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । ‘अवर्णवर्णस्य' (७।४।६८) आलोपः ।
[आपरशालः] अपरस्यां शालायां भवः । 'दिक्पूर्वादनाम्नः (६।३।२३) णप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) आलोपः ।
[अधिकषाष्टिकः] अधिकया षष्ट्या क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । अधिकां षष्टि भूतो भावी वा । 'तं भावि-भूते' (६।४।१०६) इकणप० । 'मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) ईलोपः ।
[अधिकसाप्ततिकः] अधिकया सप्तत्या क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । अधिकां सप्ततिं भूतो भावी वा । 'तं भावि-भूते' (६।४।१०६) इकण्प्र० । 'मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धिः ।
[दक्षिणगवधनः] दक्षिणा गौर्धनमस्य । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'पुम्वत् कर्मधारये' (३।२।५७) पुंवत् ।
[उत्तरगवधनः] उत्तरा गौर्धनमस्य । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४७०) अव । 'पुम्वत् कर्मधारये' (३।२।५७) पुंवत् ।।
[पूर्वगवीप्रियः] पूर्वगवी प्रियाऽस्य सः । [अपरगवीप्रियः] अपरगवी प्रियाऽस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[अधिकगवप्रियः] अधिका गौः प्रियो(या)ऽस्य । ‘गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[अधिकगवीप्रियः] अधिकगवी प्रियाऽस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । [दक्षिणगुः] दक्षिणगुरित्यत्र अल्पाश्रितमन्तरङ्ग, बह्वाश्रितं. बहिरङ्गं अस्येति सन्तीति बहुपदानि ।।छ।।
संख्या समाहारे च द्विगुश्चानाम्न्ययम् ।।३।१।९९।। [समाहारे] समाहरणं = समाहारस्तस्मिन् । [अनाम्नि] न नामन् = अनाम, तस्मिन् । [पञ्चाम्राः] पञ्च च ते आम्राश्च । [दशाम्राः] दश च ते आम्राश्च । [पञ्चर्षयः] पञ्च च ते ऋषयश्च । [सप्तर्षयः] सप्त च ते ऋषयश्च ।
[दशार्हाः] 'अर्ह पूजायाम्' (५६४) अर्ह । अर्हन्तीत्यर्हाः । 'अच्' (५।१।४९) अच्प्र०→अ । दश च ते अश्चि । [पञ्चवटाः] पश च ते वटाश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org