________________
२५१
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[दशवटाः] दश च ते वटाश्च । [पुष्पितौ द्वौ पञ्चाम्रौ] पञ्च च ते आम्राश्च = पञ्चाम्रः, तौ । [उदितास्त्रयः सप्तर्षयः] सप्त च ते ऋषयश्च ।
[द्वैमातुरः] द्वयोर्मात्रोरपत्यम् । 'संख्या-सं-भद्रान्मातुर्मातुर्च' (६।१६६) अणप्र० - मातुर च । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ।
पाञ्चनापितिः] पञ्चनापितस्याऽपत्यम् । 'अत इञ्' (६।१३१) इञ्प्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । अत्राऽपत्ये विहितः ततो नानयोर्लुप् ।
[पञ्चकपाल ओदनः] पञ्चसु कपालेषु संस्कृतः । 'संस्कृते भक्ष्ये' (६।२।१४०) अणप्र० । 'द्विगोरनपत्ये यस्वराऽऽदेर्लुबद्विः' (६।१।२४) अण्लोपः ।
[पञ्चजनीनः] पञ्चभ्यो जनेभ्यो हितः । ‘पञ्च-सर्व-विश्वाज्जनात् कर्मधारये' (७।१।४१) ईनप्र० । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । अत्र प्रत्ययविधानसामर्थ्यान्नलुक् ।
[अध्यर्द्धकंसः] अध्यर्द्धन कंसेन क्रीतः । 'कंसा-ऽर्धात्' (६।४।१३५) इकट्प्र० । 'अनाम्न्यद्वि: प्लुप्' (६।४।१४१) इकट्लोपः ।
[अध्यर्द्धशूर्पः] अधिकमर्द्धं यस्याऽसौ, अध्यःन शूर्पण क्रीतः ।
[अर्द्धतृतीयशूर्पः] अर्द्धतृतीयैः शूर्पः क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकणलोपः ।
[पञ्चगवधनः] पञ्च गावो धनमस्य । 'गोस्तत्पुरुषात्' (७।३।१०५) अट्समासान्तः । अव् ।
[पञ्चनावप्रियः] पञ्च नावो प्रिया यस्य । 'नावः' (७।३।१०४) अट्समासान्तः । 'ओदौतोऽवाव' (१।२।२४) आव् । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[व्यह्नजातः] द्वे अहनी जातस्य । सर्वां-ऽश-संख्या-ऽव्ययात् (७।३।११८) अट्समासान्तोऽह्न आदेशश्च । [पञ्चपली] पथानां पूलानां समाहारः । 'द्विगोः समाहारात' (२०४।२२) डी । 'अस्य इयां लुक' (२।४।८६) अलोपः ।
दशपूली] दशानां पूलानां समाहारः । 'द्विगोः समाहारात्' (२।४।२२) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । [पञ्चराजी] पञ्चानां राज्ञां समाहारः ।
[दशराजी] दशानां राज्ञां समाहारः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः (?) ('द्विगोरन्ननोऽट्' (७।३।९९) अट्समासान्तः) । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । 'द्विगोः समाहारात्' (२।४।२२) ङी ।
[पञ्चकुमारि] पश्चानां कुमारीणां समाहारः । 'क्लीबे' (२१४९७) हूस्वत्वम् । [दशकुमारि] दशानां कुमारीणां समाहारः । ‘क्लीवे' (२।४।९७) ह्रस्वत्वम् ।
[अष्टौ प्रवचनमातरः] अष्टन् । जस् । 'वाष्टन आः स्यादौ' (१।४।५२) आ । 'अष्ट औ जस्-शसोः' (१।४।५३) औ । प्रवचनस्य मातरः = प्रवचनमातरः ।
[एकापूपी] एकानामपूपानां समाहारः । 'द्विगोः समाहारात्' (२।४।२२) डी । [पाञ्चर्षम्] पञ्च च ते ऋषयश्च = पचर्षयः । पञ्चर्षीणामिदम् । 'तस्येदम्' (६।३।१६०) अण्प्र०→अ । 'वृद्धिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org