SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ स्वरेष्वादे०' (७।४19) वृद्धिः । [दाशार्हम दशार्हाणामिदम् । 'तस्येदम्' (६।३।१६०) अणप्र०-→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ।।छ।। निन्द्यं कुत्सनैरपापाद्यैः ।।३।१।१००।। [कुत्सनैरपापाद्यैः] कुत्सितैरेभिरिति कुत्सनानि, तैः । पाप आद्यो येषां तानि = पापाद्यानि, न पापाद्यानि = अपापाद्यानि, तैः । [वैयाकरणखसूची] व्याकरणं वेत्त्यधीते वा = वैयाकरणः । 'तद्वेत्त्यधीते' (६।२।११७) अणप्र० । 'य्वः पदान्तात् प्रागैदौत' (७।४।५) वै । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'सचण पैशन्ये' (१८५४) सूच । खं सूचयतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० । वैयाकरणश्चासौ खसूची च = वैयाकरणखसूची ।। [याज्ञिककितवः] यज्ञ । यज्ञं वेत्तीति । 'याज्ञिकौक्त्थिक-लौकायितिकम्' (६।२।१२२) याज्ञिकनिपातः । याज्ञिकश्चासौ कितवश्च । [मीमांसकदुर्दुरूढः] मीमांसा । मीमांसामधीते । ‘पद-क्रम-शिक्षा-मीमांसा-साम्नोऽकः' (६।२।१२६) अकप्र० । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । मीमांसकश्चासौ दुर्दुरूढश्च, नास्तिक इत्यर्थः । [क्षत्रियभीरुः] क्षत्रियश्चासौ भीरुश्च । [भिविटः] भिक्षुश्चासौ विटश्च । [मुनिखेटः] मुनिश्चासौ खेटश्च । [ब्राह्मणचेलः] ब्राह्मणश्चासौ चेलश्च । [बाह्मणबुवः] 'बूंग व्यक्तायां वाचि' (११२५) बू । बूते । 'बुवः' (५।१५१) अच्प्र०→अ । 'संयोगात्' (२191५२) उव् । ब्राह्मणश्चासौ बुवश्च । [राक्षसहतकः] राक्षसश्चासौ हतकश्च । [बाह्मणजाल्मः] ब्राह्मणश्चासौ जाल्मश्च । [तापसापस(श)दः] तापसश्चासावपशदश्च । मकाण्डीरकाण्डस्पृष्टः] काण्डीरश्चासौ काण्डस्पृष्टश्च । + [ग्राम्यधूतः] ग्राम्यश्चासौ धूर्त्तश्च । [मुनिधूर्तः] मुनिश्चासौ धूर्त्तश्च । [कविचौरः] कविश्चासौ चौरश्च । [आरक्षितस्करः] आ ‘रक्षि(क्ष) पालने' (५६७) रक्ष । रक्षत(ति) इति । 'ग्रहादिभ्यो णिन' (५।१५३) णिनप्र० इन् । आरक्षी चासौ तस्करश्च । पाखण्डिचाण्डालः] पाखण्डं विद्यते यस्य सः । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पाखण्डी चासौ चाण्डालश्च । Pऊ ॐ कुत्स्यते एभिरिति । बृहद्वृत्तौ - काण्डीरकाण्डपृष्ठः । + बृहवृत्तौ - ग्राम्यधृष्टः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy