SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५३ [चौरवैयाकरणः ] चौरश्चासौ वैयाकरणश्च । [ कुत्सितो ब्राह्मणः ] ब्राह्मणकुत्सित इत्यपि न पापादिपाठात् । [ पापवैयाकरणः ] वैयाकरणश्चासौ पापश्च । 'लघ्वक्षरा ऽसखीदुत्- स्वराद्यदल्पस्वरा-ऽर्च्यमेकम्' (३।१।१६० ) पापपूर्वनिपातः । [ अणकवैयाकरणः ] वैयाकरणश्चासावणकश्च । 'लघ्वक्षरा ऽसखीदुत्-स्वराद्यदल्पस्वरा-ऽर्च्यमेकम् ' ( ३।१।१६० ) अणकपूर्वनिपातः । [ पापकुलालः ] पापश्चासौ कुलालश्च । [हतविधिः ] हत [क] श्चासौ विधिश्च प्रथमा सि । [दग्धदैवम् ] दग्धश्चासौ दैवश्च (?) ( दग्धं च तद् दैवं च ) । [दुष्टामात्यः ] दुष्टश्चासावमात्यश्च । [ क्षुद्रतापसः ] क्षुद्रश्चासौ तापसश्च ||छ || [ उपमानम् ] उपमीयतेऽनेनेत्युपमानम् । [सामान्यैः ] समानस्य भावः कर्म वा सामान्यम् । 'पतिराजान्त०' (७।१।६०) ट्यण्प्र०य । वृद्धिः स्वरेष्वादे० ' ( ७ |४|१) वृद्धिः । 'अवर्णे०' (७।४।६८) अलोपः तैः । [ शस्त्रीश्यामा] शस्त्री इव = शस्त्री, शस्त्री चासौ श्यामा च । [ न्यग्रोधपरिमण्डला ] न्यग्रोध इव = न्यग्रोधः । न्यग्रोधश्चासौ परिमण्डला च । [शरकाण्डगौरी] शरकाण्डमिव शरकाण्डम्, शरकाण्डं च तद् गौरी च । गौर । 'गौरादिभ्यो ० ' (२।४।१९) डी | [ शुकहरिणी] हरित । 'श्येतैत- हरित - भरत -रोहिताद् वर्णात् तो नश्च' (२।४।३६) डी तस्य न० । 'रषृवर्णान्नो ण०' (२।३।६३) न० ० । शुक 'जातेरयान्त०' (२।४।५४) डी । शुकी चासौ हरिणी च । 'पुम्वत् कर्मधारये ' ( ३।२।५७) पुंवत् । उपमानं सामान्यैः ||३|१|१०१ ।। = [कुमुदश्येनी] कुमुदवत् = कुमुदम्, कुमुदं चासौ श्येनी च । [तडित्पिशङ्गी] तडिदिव = तडित्, तडित् चासौ पिशङ्गी च । [तित्तिरिकल्माषी ] तित्तिरिरिव = तित्तिरिः, तित्तिरिश्चासौ कल्माषी च । Jain Education International श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [कुम्भकपाललोहिनी] कुम्भस्य कपालं कुम्भकपालम्, कुम्भकपालवत् लोहिनी । [ मृगचपला ] मृगीव मृगी, मृगी चासौ चपला च = मृगचपला । 'पुम्वत् कर्मधारये' ( ३।२।५७) पुंवत् । [हंसगद्गदा] हंस 'जातेरयान्त०' (२।४।५४ ) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलोप | हंसीव हंसी हंसी चासौ गद्गदा च । — - श० म० न्यासानुसन्धाने शुकः चासौ हरिणी च । श० म० न्यासानुसन्धाने कुम्भकपालश्चासौ लोहिनी च । = For Private Personal Use Only = www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy