________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
[ काकवन्ध्या] काक 'जातेरयान्त०' (२।४।५४ ) ङी । काकीव = काकी, काकी चासौ वन्ध्या च । 'पुम्वत् कर्मधारये' ( ३।२।५७) पुंवत् ।
[देवदत्ता श्यामा] देवदत्ता प्रथमा सि । 'दीर्घड्याव्०' (१।४।४५) सिलोपः ।
[अग्निर्माणवकः] अग्निरिव अग्निः प्रथमा सि । सो रु: ' (२।१।७२) स० २० । मनोरपत्यं मूढं कुत्सितम् । 'डसोऽपत्ये' (६।१।२८) इत्यण् । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७० ) अव् । 'माणवः कुत्सायाम्' (६।१।९५) न०० | माणव एव = माणवकः । 'यावादिभ्यः कः' (७।३।१५) कप्र० ।
[गौर्वाहीकः ] वहतीति वाहीकः । ' सृणीका स्तीक प्रतीक- पूतीक-समीक-वाहीक-वाह्लीक वल्मीक- कल्मलीक- तिन्तिडीककङ्कणीक किङ्किणीक-पुण्डरीक-चञ्चरीक-फर्फरीक-झर्झरीक-घर्घरीकाऽऽदयः' (उणा० ५०) किदीकप्र० वाहीकनिपातः ॥ छ ||
उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ||३|१|१०२ ।।
[ उपमेयम् ] उप 'मांक माने' (१०७३) मा । उपमीयते । 'य एच्चातः' (५।१।२८) यप्र० आ० ए० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
[ व्याघ्राद्यैः ] व्याघ्र आद्यो येषां तानि तैः ।
[ साम्यानुक्तौ ] समस्य भावः = साम्यम्, न उक्तिरनुक्तिः, साम्यस्य अनुक्तिः
[ पुरुषव्याघ्रः ] व्याघ्र इव = व्याघ्रः पुरुषश्चासौ व्याघ्रश्च = पुरुषव्याघ्रः ।
[ पुरुषसिंहः ] सिंह इव =
सिंहः, पुरुषश्चासौ सिंहश्च ।
[ पुरुषवृषभः] वृषभ इव = वृषभः, पुरुषश्चासौ वृषभश्च ।
[ वृषभसिंह ] सिंह इव = सिंहः, वृषभश्चासौ सिंहश्च ।
[ पुरुषव्याघ्रः शूरः ] राजवत्पुरुषः ।
[वाग्वज्रः ] वाग् वज्र इव ।
[मुखपद्मम् ] मुखं पद्ममिव ।
[ पाणिपल्लवम् ] पाणी पल्लवाविव ।
[करकिसलयम् ] करः किसलयमिव ।
[ राजव्याघ्री ] राजन् 'स्त्रियां नृतोऽस्वस्रादेर्डी : ' (२।४।१) ङी । 'ईङौ वा' (२।१।१०९) अलोपः । ' तवर्गस्य श्चवर्ग०'
( १।३।६०) न० ञ० । राज्ञी चासौ व्याघ्री च ।
[ वदनेन्दुः ] वदनमिन्दुरिव ।
[ पार्थिवचन्द्रः ] पार्थिवश्चन्द्र इव ।
[ वानरश्वा ] वानरः श्वेव ।
२५४
[ सिंही] श्वन् 'स्त्रियां नृतोऽस्वत्रादेर्डी : ' (२।४।१ ) ङी । ' श्वन्- युवन् मघोनो डीस्याद्यघुट्स्वरे व उ:' ( २।१।१०६ ) व० उ० । शुनी चासौ सिंही च । 'पुम्वत् कर्मधारये' (३।२।५७) पुंवत् ।
Jain Education International
=
For Private
साम्यानुक्तिः, तस्याम् 1
Personal Use Only
www.jainelibrary.org