SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५५ वीरश्च [कुचकुम्भः ] कुचौ कुम्भेव (भाविव ) । [ स्तनकलश: ] स्तनौ कलशाविव ॥ छ ॥ = पूर्वा-पर-प्रथम- चरम - जघन्य-समान-मध्य-मध्यम- वीरम् ||३|१|१०३ ।। [पूर्वाऽपरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ] पूर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यश्च मध्यमश्च पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् । [ पूर्वपुरुषः ] पूर्वश्चासौ पुरुषश्च । [ अपरपुरुषः ] अपरश्चासौ पुरुषश्च । [ प्रथमपुरुषः ] प्रथमश्चासौ पुरुषश्च । [ चरमपुरुषः ] चरमश्चासौ पुरुषश्च । [ जघन्यपुरुषः ] जघन्यश्चासौ पुरुषश्च । [ समानपुरुषः ] समानश्चासौ पुरुषश्च । [ मध्यपुरुषः ] मध्यश्चासौ पुरुषश्च । [ मध्यमपुरुषः ] मध्यमश्चासौ पुरुषश्च । [वीरपुरुषः] वीरश्चासौ पुरुषश्च । [ पूर्वजरन्] पूर्वश्चासौ जरंश्च । [वीरपूर्वः] वीरश्चासौ पूर्वश्च । [ पूर्वपटुः] पूर्वश्चासौ पटुश्च । [एकवीरः ] एकश्चासौ वीरश्च ||छ || [ श्रेण्यादि ] श्रेणिरादिर्यस्य तत् [कृताद्यैः] कृत आद्यो येषां ते [च्व्यर्थे] च्वेरर्थश्च्व्यर्थस्तस्मिन् । श्रेण्यादि कृताद्यैश्च्व्यर्थे ||३|१|१०४ || । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । कृताद्यास्तैः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । = Jain Education International [ श्रेणिकृताः पुरुषाः ] अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । [ऊककृताः ] अनूका ऊकाः कृताः = ऊककृताः । राशिस्थानीकृता इत्यर्थः । [ पूगकृताः] अपूगाः पूगाः कृताः । [श्रेणिमताः ] बुधि (१२६२ ) - 'मनिंच् ज्ञाने' (१२६३) मन् । मन्यन्ते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ' यमि-रमि- नमि०' (४।२।५५) नलोपः । अश्रेणयः श्रेणयो मताः । = [ श्रेणिमिताः] 'मांक माने' (१०७३) मा । मीयन्ते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० । 'दो सो मा स्थ इ: ' ( ४|४|११ ) इ । अश्रेणयः श्रेणयो मिताः । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy