________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
[ श्रेणिभूताः ] अश्रेणयः श्रेणयो भूताः ।
[श्रेणयः कृताः ] श्रेणयः कृताः । किञ्चिन्निगृहीता अनुगृहीता वेत्यर्थः ।
[ श्रेणीकृताः ] अश्रेणयः श्रेणयः कृताः । ' कृ-भ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्चिप्र० । 'दीर्घश्च्वि-य-यक- क्येषु च ' ( ४।३।१०८) दीर्घः 1
[ऊकीकृताः] अनूका ऊकाः कृताः । कृभ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्या०' (४|३|१११ )
ई छ ।
[नञादिभिन्नैः] नञ् आदिर्येषां ते
क्तं नञादिभिन्नैः ||३|१|१०५ ।।
= नञादयः, नञादिभिर्भिन्नानि
=
२५६
नञादिभिन्नानि तैः ।
[कृताकृतम्] कृतं च तदकृतं च ।
[भुक्ताभुक्तम्] भुक्तं च तदभुक्तं च ।
[अशितानशितम् ] 'अशश् भोजने ' (१५५८) अश् । अश्यति (ते) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । अशितं च तदनशितं च ।
[क्लिष्टाक्लिशितम् ] 'क्लिशिच् उपतापे' (१२७६) क्लिश् । क्लिश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० । 'पूङ्- क्लिशिभ्यो नवा' ( ४/४/४५) इट् इ । अन्यत्र 'यज - सृज - मृज० ' (२1१1८७) श० ष० । ' तवर्गस्य श्चवर्ग०' (१।३।६० ) ० ० । क्लिष्टं च तदक्लिशितं च ।
Jain Education International
[पूतापवितम् ] 'पूङ् पवने' (६००) पू । पूयते स्म । 'क्त-क्तवतू' (५1१।१७४) क्तप्र० । पूङ्-क्लिशिभ्यो नवा' (४।४।४५) इट् इ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतो०' (१।२।२४) अव् । पूतं च तदपवितं च । [शाताशितम्] शातं च तदशितं च । 'शोंच् तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४।२1१) आ । शायते स्म । 'क्तक्तवतू' (५।१।१७४) प्र० । 'छा- शोर्वा' (४|४|१२ ) इ विकल्पेन ।
[छाताच्छितम् ] द (११४८) - 'छोंच् छेदने' (११४९) छो । 'आत् सन्ध्यक्षरस्य' (४।२।१) छा । छायते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्रत । 'छा- शोर्वा' (४|४|१२ ) इ विकल्पेन । छातं च तदच्छितं च ।
[कृतापकृतम्] कृतं च तदपकृतं च ।
[भुक्तविभुक्तम् ] भुक्तं च तद् विभुक्तं च ।
[ पीतावपीतम् ] 'पां पाने' (२) पा । पीयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० । 'ईर्व्यञ्जनेऽयपि ' ( ४।३।९७) ई । पीतं च तदवपीतं च ॥ छ ॥
सेड् नाऽनिटा || ३|१|१०६।।
[सेट् ] सह इटा वर्त्तत इति सेट् । 'सहस्य सोऽन्यार्थे' ( ३।२।१४३) सभावः ।
[ अनिटा ] न विद्यते इट् यस्य ( यत्र ) तदनिट् तेन । 'अन् स्वरे' ( ३।२।१२९) अन् ।
[क्लिशितमक्लिष्टम् ] 'क्लिशौश् विबाधने' (१५५७) क्लि । क्लिश्यत इति । 'पूड- क्लिशिभ्यो० ' ( ४१४/४५) इट् । क्लिशितं च तद् अक्लिष्टं च ।
For Private Personal Use Only
www.jainelibrary.org