SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५७ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [विन्नावित्तम] 'विदिप विचारणे' (१४९७) विद् । विद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'ऋ-हीघ्रा-धा-त्रोन्द-नुद-विन्तेर्वा' (४।२७६) त० → न० विकल्पेन । विन्नं च तद् अवित्तं च = विन्नावित्तम् । [त्राणात्रातम] देंङ् (६०४) - 'त्रै पालने' (६०५) त्रै । 'आत् सन्ध्यक्षरस्य' (४।२।१) त्रा । त्रायते स्म । 'क्तक्तवतू' (५।११७४) क्तप्र०→त । 'ऋ-ही-घ्रा-धा-त्रोन्द-नुद-विन्तेर्वा' (४।२७६) त०→न० । 'रघुवर्णान्नो ण' (२।३।६३) न०-→ण । त्राणं च तद् अत्रातं च = त्राणात्रातम् । [कृताकृतम्] कृतं च तदकृतं च । [शाताशातम्] शातं च तदशातं च । [छाताच्छातम] छातं च तदच्छातं च । [अशितानशितेन जीवति] 'अशश् भोजने' (१५५८) अश् । अश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त | 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट । अशितं च तदनशितं च । [शिताशितम्] 'शोंच तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४२११) शा । शायते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र०→त । 'छा-शोर्वा' (४।४।१२) इ । न शितमशितम्, शितं च तदशितं च । [छिताच्छितम्] दो (११४८) 'छोंच छेदने' (११४९) छो । 'आत् सन्ध्यक्षरस्य' (४।२।१) छा । छायते स्म । 'क्तक्तवतू' (५1१1१७४) क्तप्र०→त । 'छा-शोर्वा' (४।४।१२) इ । न छितं = अच्छितम्, छितं च तदच्छितं च ।।छ।। सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ।।३।१।१०७।। [सन्महत्परमोत्तमोत्कृष्टम] संश्च महांश्च परमश्च उत्तमश्च उत्कृष्टश्च = सन्महत्परमोत्तमोत्कृष्टम् । [सत्पुरुषः] संश्चासौ पुरुषश्च । [महापुरुषः] महांश्चासौ पुरुषश्च । 'जातीयैकार्थेऽच्चेः' (३१२७०) डाप्र० → आ । 'डित्यन्त्यस्वरादेः' (२११1११४) अत्लोपः । [परमपुरुषः] परमश्चासौ पुरुषश्च । [उत्तमपुरुषः] उत्तमश्चासौ पुरुषश्च । [उत्कृष्टपुरुषः] उत्कृष्टश्चासौ पुरुषश्च । [महोदधिः] कथं महांश्चासौ उदधिश्च, बहुलाधिकारादविष्यति । [सच्छुक्लः] संश्चासौ शुक्लश्च । [परमजरन्] परमश्चासौ जरंश्च । [महावीरः] महांश्चासौ वीरश्च । 'जातीयैकार्थेऽच्चेः' (३।२।७०) डाप्र० → आ । डित्यन्त्यस्वरादेः (२।१।११४) अत्लोपः । [परममहान] परमश्चासौ महांश्च ।।छ।। वृन्दारक-नाग-कुञ्जरैः ।।३।१।१०८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy