Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 334
________________ શ્રાવક પ્રજ્ઞપ્તિ , ૩૨૩ देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा । तीइवि रूवसमिद्धी, रूवे य बलं पहाणयरं ॥ ३५७ ॥ [देशे कुलं प्रधानं कुले प्रधाने च जातिरुित्कृष्टा । तस्यामपि रूपसमृद्धिः रूपे च बलं प्रधानतरम् ॥ ३५७ ॥] देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्यमिति ॥ ३५७ ॥ होइ बले वि य जीयं, जीए वि पहाणयं तु विनाणं । विन्नाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती ॥ ३५८ ॥ [भवति बलेऽपि च जीवितं जीवितेऽपि प्रधानकं तु विज्ञानम् । विज्ञानेऽपि सम्यक्त्वं सम्यक्त्वे शीलसंपत्तिः ॥ ३५८ ॥] भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवितेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति ॥ ३५८ ॥ सीले खाइयभावो, खाइयभावे य केवलं नाणं । केवलिए पडिपुन्ने, पत्ते परमक्खरे मुक्खो ॥ ३५९ ॥ [शीले क्षायिकभावो क्षायिकभावे च केवलज्ञानम् । कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्षः ॥ ३५९ ॥] शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति ॥ ३५९ ॥ न य संसारम्मि सुहं, जाइजरामरणदुक्खगहियस्स । जीवस्स अत्थि जम्हा, तम्हा मुक्खो उवादेओ ॥ ३६० ॥ न च संसारे सुखं जातिजरामणदुःखगृहीतस्य । जीवस्यास्ति यस्मादेवं तस्मान्मोक्ष उपादेयः ॥ ३६० ॥ किंविशिष्ट इत्याहजच्चाइदोसरहिओ, अव्वाबाहसुहसंगओ इत्थ । तस्साहणसामग्गी, पत्ता य मए बहू इन्हिं ॥ ३६१ ॥ जात्यादिदोषरहितोऽव्याबाधसुखसंगतोऽत्र (संसारे) तत्साधनसामग्री प्राप्ता च मया बह्वीदानीम् ॥ ३६१ ॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370