________________
શ્રાવક પ્રજ્ઞપ્તિ , ૩૨૩ देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा । तीइवि रूवसमिद्धी, रूवे य बलं पहाणयरं ॥ ३५७ ॥ [देशे कुलं प्रधानं कुले प्रधाने च जातिरुित्कृष्टा । तस्यामपि रूपसमृद्धिः रूपे च बलं प्रधानतरम् ॥ ३५७ ॥]
देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्यमिति ॥ ३५७ ॥ होइ बले वि य जीयं, जीए वि पहाणयं तु विनाणं । विन्नाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती ॥ ३५८ ॥ [भवति बलेऽपि च जीवितं जीवितेऽपि प्रधानकं तु विज्ञानम् । विज्ञानेऽपि सम्यक्त्वं सम्यक्त्वे शीलसंपत्तिः ॥ ३५८ ॥]
भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवितेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति ॥ ३५८ ॥
सीले खाइयभावो, खाइयभावे य केवलं नाणं । केवलिए पडिपुन्ने, पत्ते परमक्खरे मुक्खो ॥ ३५९ ॥ [शीले क्षायिकभावो क्षायिकभावे च केवलज्ञानम् । कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्षः ॥ ३५९ ॥]
शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति ॥ ३५९ ॥
न य संसारम्मि सुहं, जाइजरामरणदुक्खगहियस्स । जीवस्स अत्थि जम्हा, तम्हा मुक्खो उवादेओ ॥ ३६० ॥ न च संसारे सुखं जातिजरामणदुःखगृहीतस्य । जीवस्यास्ति यस्मादेवं तस्मान्मोक्ष उपादेयः ॥ ३६० ॥ किंविशिष्ट इत्याहजच्चाइदोसरहिओ, अव्वाबाहसुहसंगओ इत्थ । तस्साहणसामग्गी, पत्ता य मए बहू इन्हिं ॥ ३६१ ॥ जात्यादिदोषरहितोऽव्याबाधसुखसंगतोऽत्र (संसारे) तत्साधनसामग्री प्राप्ता च मया बह्वीदानीम् ॥ ३६१ ॥