________________
શ્રાવક પ્રજ્ઞપ્તિ - ૩૪૬ [अव्याबाधत एव सकलेन्द्रियविषयभोगपर्यन्ते । औत्सुक्यविनिवृत्तेः संसारसुखमिव श्रद्धेयम् ॥ ३९८ ॥] अव्याबाधत एव अव्याबाधादेव सकलेन्द्रियविषयभोगपर्यन्ते अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यविनिवृत्तेरभिलाषव्यावृत्तेः कारणात्संसारसुखमिव श्रद्धेयं तस्यापि तत्त्वतो विषयोपभोगतस्तदौत्सुक्यविनिवृत्तिरूपत्वात्तदर्थं भोगक्रियाप्रवृत्तेरेति ॥ उक्तं च
वेणुवीणामृदङ्गादि-नादयुक्तेन हारिणा । श्लाघ्यस्मरकथाबद्ध-गीतेन स्तिमितं सदा ॥ १ ॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः ।। लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि ॥ २ ॥ अम्बरागुरुकर्पूर-धूपगन्धान्वितस्ततः । पटवासादिगन्धांश्च, व्यक्तमाघ्राय निस्पृहः ॥ ३ ॥ नानारससमायुक्तं, भुक्त्वान्नमिह मात्रया ।। पीत्वोदकं च तृप्तात्मा, स्वादयन् स्वादिमं शुभम् ॥ ४ ॥ मृदुतूलीसमाक्रान्त-दिव्यपर्यङ्कसंस्थितः । सहसाम्भोदसंशब्दं, श्रुतेर्भयधनं भृशं ॥ ५ ॥ इष्टभार्यापरिष्वक्तः, तद्रतान्तेऽथवा नरः । सर्वेन्द्रियार्थसंप्राप्त्या, सर्वबाधानिवृत्तिजं ॥ ६ ॥ यद्वेदयति संहृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनन्तं, सुखमाहुर्मनीषिणः ॥ ७ ॥ इत्यादीति ॥ ३९८ ॥ પૂર્વે (ગા. ૩૮૬)માં “અવ્યાબાધ” એમ જે કહ્યું હતું તેને કહે છેગાથાર્થ– ટીકાર્થ– સર્વ ઇંદ્રિયોના વિષયોના ભોગના અંતે અભિલાષની નિવૃત્તિ થવાના કારણે સંસારનું સુખ છે. કારણ કે સંસારનું સુખ પણ પરમાર્થથી વિષયોનો ઉપભોગ થવાના કારણે થનારી વિષયોપભોગની અભિલાષાની નિવૃત્તિરૂપ છે.
અહીં ભાવાર્થ આ છે- જીવોને પહેલાં વિષયોપભોગની અભિલાષા થાય છે. પછી વિષયોપભોગ કરે છે. વિષયોપભોગ થઈ જતાં વિષયોપભોગની અભિલાષા નિવૃત્ત થાય છે. એથી જીવ મને સુખ મળ્યું