Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ अथ प्रतिक्रमणवृत्तिः श्रीवीतरागाय नमः॥ अथ प्रतिक्रमणमिति कः शब्दार्थ इत्युच्यते प्रतिशब्दः प्रतीपाद्यर्थे ततः शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं क्रमणं निवर्त्तनं प्रतिक्रमणमिति । तच्च प्रतिक्रमणं यावज्जीवमित्वरं च तत्र यावज्जीवं व्रतादिलक्षणमित्वरं दैवसिकादि। तद्यथा “पडिकमणं देवसियं राइयमित्तरियमावकाहयं च। पक्खियचाउम्मासिय संवच्छर उत्तम ठेय।।" उत्तमार्थे भक्तपत्याख्याने दैवसिकेनैवशोधिते सत्यात्मनि पाक्षिकादि किमर्थमुच्यते “जह गेहं पइदिवसपि सोहियं तहवि पक्ख संधिसु।सोहिज्जइसविसेसं एवं इहइंपि नायव्व।" प्रतिक्रमणविषयस्तु “ पडिसिद्धाणं करणे किच्चाणमकरणे य पडिकमणं । अस्सद्दहणे य तहा विवरीयपरूवणाएय॥" सांप्रतं प्रतिक्रमणसूत्रं । पञ्चपरमेष्ठि नमस्कारपूर्वकमुच्चारणीयं तच्चेदं “ करेमि भन्ते सामाइयमित्यादि जाववोसिरामि " अस्य व्याख्यां करोमि भयस्यान्तो यस्मात्तस्य संबोधनं भयान्त गुरोभन्ते इत्यामन्त्रणात् गुरुं विना सामायिकं न भवत्येव सामायिकं समस्यारक्तद्विष्टस्य भावस्यायनमायो गमनं समायः। स एव स्वार्थिकेकणि सामायिकं सर्व सपापं योगंव्यापारंप्रत्याख्यामि निराकुर्वे यावज्जीवनं भिदादित्वादडियावज्जीवा तया यावदस्मिन् जन्मनि प्राणधारणमित्यर्थः त्रिविध मनोवाक्कायव्यापारं त्रिविधेन करणे तृतीया मनसा वाचा कायेन न करोमि न कारयामि कुर्वतमप्यन्यं नानुजानामि नानुमन्ये तस्य सावद्ययोगस्य कृतस्य भयान्त प्रतिक्रमामि निवर्ते निन्दामि जुगुप्से आत्मसाक्षिकं गहें गुरुसाक्षिकं आत्मानं कृतसावधव्यापार व्युत्सृजामि त्यजामीति ननूच्चारणमपि पुनरस्य किमर्थ क्रियते । उच्यते। समभावस्थेनैव प्रतिक्रमितव्यमिति ज्ञापनार्थ । अथवा “ यद्वद्विषघातार्थ मन्त्रपदैन पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदं” रागविषघ्नं चेदं यतस्ततश्च मङ्गलपूर्वकं प्रतिक्रमितव्यमतः सूत्रकार एव in Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38