Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 35
________________ Jain Education हीणमग्गंति"अवितथं सत्यम् अविसन्धि अव्यवच्छिन्नं सर्वदा अवरविदेहादिषु भावात् सर्वदुःखमहीणमार्ग सर्वदुःखप्रक्षीणो मोक्षस्तत्कारणमित्यर्थः। सांप्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह “एत्थं ठिया जीवा सिज्झन्तीति" अत्र नैर्ग्रन्थप्रवचने स्थिता जीवाः सिध्यन्तीत्याणिमादि अतिशयफलं प्राप्नुवन्ति “बुज्झन्तीति " बुध्यन्ते केवलिनो भवन्ति “मुच्चन्तित्ति” मुच्यन्ते भवोपग्राहिकर्म्मणा “परिनिव्वुडन्तित्ति” परिः समन्ताभिर्व्वान्ति किमुक्तं भवति “सव्वदुक्खाणमन्तं करेन्ति" सर्वदुःखान। शारीरमानसभेदानामन्तं विनाशं कुर्व्वन्ति इत्थमभिधायाधुनात्र चिन्तामणिकल्पे कर्म्ममलप्रक्षालनसमर्थसलिलौघं श्रद्धानमाविष्कुर्व्वन्नाह" तं धम्मं सदहामित्ति" य एष निर्ग्रन्थमावचनलक्षणो धर्म्म उक्तस्तं धर्म्म श्रदध्महे | सामान्येनाप्येवं स्यादिति “पत्तियामीत्त" प्रतिपद्यामहे प्रीतिकरणद्वारेण “रोएमित्ति” रोचयामि अभिलाषातिरेकेणासेवनाभिमुखतया तथा प्रीती रुचिश्व भिन्ने एव यतः कचिदध्यादौ प्रीतिसद्भावेपि न सर्वदा रुचिः “फासेमित्ति” स्पृशामि आसेवनाद्वारेणेति “अणुपालोमीत्त” अनुपालयामि पौनःपुन्यकरणेन " तं धम्मं सद्दहन्तो इत्यादि ” तं धर्म्म श्रदधानः प्रतिपद्यमानो रोचयन् स्पृशन् अनुपालयन् “तस्स धम्मस्स अन्भुट्टि ओमि आराहणाएत्ति” तस्य धर्म्मस्य प्रागुक्तस्याभ्युत्थितोऽस्मि आराधनायामाराधनविषये विरतोऽस्मि विराधनायां एतदेव भेदेनाह--असंयमं प्राणातिपातादिरूपं परिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः । तथा संयमं प्रागुक्तस्वरूपमुपसंपद्यामहे प्रतिपद्यामह इत्यर्थः तथा अब्रह्म वस्त्यनियमलक्षणं तद्विपरीतं ब्रह्म शेषं पूर्ववत् । प्रधानासंयमाङ्गत्वाच्चाब्रह्मणो निदानपरिहारार्थमनअन्तरमिदमाह । असंयमाङ्गत्वादेवाह । अकल्पो ऽकृत्यमाख्यायते कल्पस्तु कृत्यमिति । इदानीं द्वितीयं बन्धकारणमाश्रित्याह । “ अन्नाणमि - त्यादि " अज्ञानं सम्यग्ज्ञानादन्यत् । ज्ञानं तु भगवद्वचनं । अज्ञानभेदपारहरणायैवाह “ अकिरियं परियाणामीत्यादि " अक्रिया नास्ति - कवादः क्रिया सम्यग्वादः । तृतीयं बन्धकारणमाश्रित्याह “ मिच्छत्तामित्यादि " मिथ्यात्वं पूवोक्तं सम्यक्त्वमपि । एतदङ्गत्वादेवाह अबो ional For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38