Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्ति.
प्रतिक्र० रिक्खं होइ सयतारं" इत्यादि । एवमतिचारविशुद्धिं कृत्वा नमस्कारमाह अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तोऽपुनःकरणाय
प्रतिक्रमन्नमस्कारपूर्वकमाह “ नमो चउवीसाए तित्थयराणमित्यादि " नमश्चतुर्विंशतितीर्थकरेभ्यः । ऋषभादिमहावीरपर्यवसानेभ्यः । इत्यं ॥१३॥
नमस्कृत्य प्रस्तुतस्य गुणव्यावर्णनायाह " इणमेव निग्गन्थमित्यादि " इदमेवेति सामयिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्गं वा गणिपिटकं
निर्ग्रन्था बाह्याभ्यन्तरग्रन्यान्निर्गताः निर्ग्रन्थाः साधवो निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रावचनमिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिKस्तत्प्रावचनं । तत्किमत आह सद्भयो हितं सत्यं सन्तो मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यं नयदर्शनमपि स्वविषये सत्यं भवत्ये
वेत्यत आह “ अणुत्तरन्ति " नास्योत्तरं यथावस्थितसमस्तवस्तुप्रतिपादकत्वादुत्तमं इत्यर्थः । अन्यदप्येवं भविष्यतीत्यत आह " केवलियं" केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः । तथा प्रतिपूर्णमपवर्गप्रापकैर्गुणैर्धतमित्यर्थः “नेयाउयन्ति" नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः तदप्यसंशुद्धं भविष्यतीत्यत आह " संसुद्धन्ति " सामस्त्येन शुद्धं संशुद्ध एकान्ताकलङ्कमित्यर्थः । एवंभूतमपि कथंचित्तत्स्वा| भाव्यान्नालं भवनिवन्धनिकर्त्तनाय भविष्यतीत्यत आह " सल्लगत्तणंति" कुन्ततीति कर्त्तनं शल्यानि मायादीनि तेषां कर्त्तनं शल्यकर्त्तनं ।। परमतानिषेधार्थ त्वाह " सिद्धिमग्गं मुत्तिमग्गंति" सेधनं सिद्धिहितार्थमाप्तिस्तस्या मार्गः सिद्धिमार्गस्तं मोचनं मुक्तिरहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्गस्तं केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधनमिति भावना। अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह। विप्रतिप्रत्तिनिरासार्थमेवाह "निजाणमग्गं निव्वाणमग्गति" यान्ति तदिति यानं निरुपम यानं निर्याणं मोक्षपदं तस्य मार्गो निर्याणमार्गस्तम् अनेनानियतसिद्धिक्षेत्रप्रतिपादनापरदुर्नयनिरासमाहानितिनिळणं सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः तस्य मार्ग इति निर्वाणमार्गस्तम् अनेन च निःसुखदुःखा मुक्तात्मान इति प्रतिपादनपरदुर्नयनिरासमाहानिगमयन्नाह "अवितहमविसंधिं सव्वदुक्खप
Jain Education
clonal
For Private & Personel Use Only
ainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38