Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रतिक्र०
॥१४॥
Jain Education
धिर्मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति इदानीं सामान्येनाह “ अमग्गमित्यादि " अमार्गो मिथ्यात्वादिः मार्गस्तु सम्यग्दर्शनादिरिति "सञ्जमबंभे कप्पे णाणे किरिए य सम्मबोहीसुं । मग्गेसु विवक्खेसुं परिन्न उवसंपया कमसो "इदानीं छद्मस्थत्वादशेषदोषशुद्ध्यर्थमाह “जं संभरामि” यत्किंचित्स्मरामि यच्च छद्मस्थत्वादनाभोगान्नेति तथा यत्प्रतिक्रामामि सूक्ष्ममविदितम् अभोगाद्विदितं यच्च न प्रतिक्रमामि अनेन प्रकारेण यः कश्चिदतिचारः “ तस्स सव्वस्त देवासियस्स अइयारस्स पडिकमामित्ति " कण्ठ्यं इत्थं प्रतिक्रम्य पुनरप्यकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह “ समणोहमित्यादि " श्रमणोऽहं तत्रापि न चरकादिः किं तर्हि संयतः सामस्त्येन यत इदानीं विरतो निवृत्तोऽतीतस्यैष्यस्य च निन्दनसंवरद्वारेणात एवाह - प्रतिहतमिदानमिकरणतया प्रत्याख्यातमतीतनिन्दया एष्यमकरणतया पापकर्म्म येनेति प्रधानोऽयं दोष इति कृत्वा तच्छून्यतामात्मनो भेदेन प्रतिपादयन्नाह - अनिदानो निदानरहितः सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह - दृष्टिसंपन्नः सम्यग्दर्शनयुक्त इत्यर्थः। द्रव्यवन्दनपरिहारायाह मायामृषाविवको मायागर्भमृषावादपरिहारीत्युक्तं भवति । एवंभूतः सन् किं “अड्डाइज्जेसु दीवसमुद्देसु" इत्याह-अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपधातकीखण्डपुष्करार्द्धेषु पञ्चदशसु कर्म्मभूमिषु पञ्चभरतपञ्चैरवतपञ्चविदेहाभिधानासु यावन्तः केचन साधवो रजो हरणगोच्छकप्रतिग्रहधारिणः पञ्चमहाव्रतधारिणः पञ्च महाव्रतानि प्रतीतान्येव तदेकाङ्गविकलमत्येकबुद्धादिसङ्ग्रहायाह-अष्टादशशलाङ्गसहस्रधारिणस्तथाहि केचिद्भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि तानि चाष्टादशशीलाङ्गसहस्राण्येवं "जोए करणे संना इन्दियभोमाइ समणधम्मे य। सीलिंगसहसाणं अट्ठारसगस्स निष्पत्ती " स्थापनात्वियमियं तु भावना । मणेणं न करेइ आहारसन्नाविप्पजढो सोइन्दियसंवुडो खन्ति| संपन्नो पुढविकायसंरक्खओ। एवं आउकाय संरक्खओ इत्यादि द्रष्टव्यमिति । तथा अक्षताचारचारित्रिणः अक्षताचार एव चारित्रिणः तान् सर्वान् गच्छतन्निर्गतभेदान् शिरसोत्तमाङ्गेन मनसान्तःकरणेन मस्तकेन वन्द इति वाचा इत्थमाभिवन्द्य साधून पुनरौघतः सकलसत्त्वक्षामणमैत्रीप्रद
For Private & Personal Use Only
वृत्ति ०
॥१४॥
jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38