Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ नासर्वत्र कार्या। इत्थं गमनागमनातस्यत्येतावता स्वक्रियाकालमाह मिच्छामिकामनामिताः स्वस्थानात्परस्थानं नीताः । क्रमेण किंबहुना भेदाख्यानेन सर्वथा ये मया विराधिता जीवाः दुःखे स्थापिताः एकेन्द्रियाः पृथिव्यादयः, द्वीन्द्रियाः कुम्यादयः,त्रीन्द्रियाः पि-10 पीलिकादयः, चतुरिन्द्रिया भ्रमरादयः,पञ्चेन्द्रिया मूषिकादयः, अभिहता अभिमुख्येन हताश्चरणेन घट्टिता उत्क्षिप्य क्षिप्ता वा, वर्तिताः पुञ्जीकृताः धूल्या वास्थागताः,श्लेषिताः पिष्टा भूम्यादिषु वा, लगिताः सङ्घट्टिताः अन्योन्यं गात्रैरेकत्र लगिताः सङ्घट्टिता, मनाक स्पृष्टाः परितापिताः समन्ततःपीडिताः,लामिताः समुद्धातं नीता ग्लानिमापादिता इत्यर्थः अवद्राविता उत्रासिताःस्थानात् स्थानं सङ्क्रामिताः स्वस्थानात्परस्थानं नीताः, जीविताव्यपरोपिता मारिता इत्यर्थः एवं यो जातोतिचारःतस्येत्येतावता स्वक्रियाकालमाह मिच्छामि दुक्कडमनेन निष्ठाकालमाह। मिथ्या दुष्कृतं पूवेवदेव तस्येत्यादिका योजना सर्वत्र कार्या। इत्थं गमनागमनातिचारपतिक्रमणमुक्तमधुना त्वग्वर्त्तनस्थानातिचारप्रतिपादनायाह-"इच्छामि पडिक्क| मिउँ पगामसेज्जाए इत्यादि यावत्तस्स मिच्छामि दुक्कडंति"अस्य व्याख्या इच्छामि प्रतिक्रमितुं पूर्ववत् प्रकामशय्यया शयनं शय्या प्रकामंचातुर्यामं शय्या तया शेरतेऽस्यामिति वा शय्या संस्तारकादिलक्षणा प्रकामा उत्कया शय्या संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया च स्वाध्यायाधकरणतश्चेहातिचारः प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया च उद्वर्तनं सुप्तस्य प्रथमतया द्वितीयपार्थेन परावर्त्तनं तदेवोद्वर्तना तया, पुनरन्यपार्चेन वर्त्तनं परिवर्त्तना तया, च अत्राप्यप्रमृज्य कुर्वतोऽतिचारः आकुञ्चना गात्रसङ्कोचना तया, प्रसारणा अङ्गानां विक्षेपस्तया, अत्रच कुर्कुटीदृष्टान्तेनाकाशे पादप्रसारणाकुश्चने प्रमृज्य कार्ये तदकरणेतिचारः षट्पदिकानां यूकानामावधिना सङ्घटना स्पर्शना तया, तथा कूजितं कासितं तस्मिन् मुखवस्त्रिकां करं वा मुखे अनाधाय कुर्वतोऽतिचारः विषमा धर्मावतीत्यादि शय्यादोषोच्चारणं कर्करायितं तस्मिन् य आर्तध्यानजोऽतिचारः तथा क्षुते जूंभिते चाविधिना आमर्षणमाम!अमृज्य करेण स्पर्शनं तस्मिन सरजस्कामर्षे सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः एवं जाग्रतोतिचारसंभवमधिकृत्योक्तमधुना सुप्तस्योच्यते " आउल-IN Join Education in For Private & Personel Use Only A jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38