Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 25
________________ तानि चामूनि “समओ १ वियालीयं २ उवसग्गपरिन्न ३ । थीपरिन्ना य ४ निरयविहत्ती ५ । वीरत्यओ य ६ । कुलाण परिभासा ७॥१॥ वीरिए ८ धम्म ९ समाही १० मग्गा ११ समोसरण १२ महतहं १३ गन्थो १४ । जमइयं १५ तह गाहा १६ सोलसमं होइ। अज्झयणं ॥२॥" सप्तदशविधे असंयमे तत्र संयमनं संयमोऽसंयमः पृथिव्यादिविषयः, सप्तदशधात्वं चास्य तद्विपक्षस्य सप्तदशभेदसंख्यत्वात्तद्यथा “ पुढविदगअगणिमारुयवणस्सइबितिचउपणिदिअजीवे । पेहोपेहपमज्जणपरिठवणमणोवईकाए " तत्र पृथिवीकायसंयम इत्यादि यावत्पञ्चेन्द्रियसंयम इति नव भेदाः अजीवेषु संयमस्तु “जह पोत्थदूसपणए तणपणए चंमपणए य" इत्याद्यागमाज्ज्ञेयः।। प्रेक्षासंयमस्तु स्थानादि यत्र कुरुते तत्र प्रेक्ष्य कुरुते । उपेक्षासंयमस्तु व्यापाराव्यापारविषयतया द्विधा, व्यापारे सदनुष्ठानेषु सीदतामुपेक्षा न कुरुते प्रेरयतीत्यर्थः, अव्यापारे गृहिणां सीदतामप्युपेक्षां कुरुते । तथा प्रमार्जनासंयमः पथि पादयोर्वसत्यादेश्च विधिना प्रमार्जनं । अविशुद्धभक्तोपकरणादेविधिना परित्यागः परिष्ठापनासंयमः । अकुशलानां मनोवाक्कायानां निरोधतश्च तत्संयम इति सप्तदशधा । अष्टादश-N विधे अब्रह्मणि तद्यथा "ओरालियं च दिव्वं मणोवईकायकरणजोगेहिं । अणुमोयणकारावणकरणेणटारसमबंभं " तत्रौदारिकं तिर्यकमनुष्याणामब्रह्मचर्य त्रिविधं त्रिविधेनेति. नवधा, दिव्यं च भवनवास्यादीनां नवधेत्येकत्राष्टादश भेदाः ॥ " एगूणवीसाए नायज्झयणेहिं" प्राकृतशैल्या च्छान्दसत्वाच एकोनविंशतिभिाताध्ययनैरिति वेदितव्यं । पाठान्तरं वा " एगूणवीसाहिं नायज्झयणहिन्ति" एवमन्यत्रापि द्रष्टव्यं । ज्ञाताध्ययनानि ज्ञाताधर्म्मकथान्तर्वतीनि तद्यथा "उखित्तनाए १ । सङ्काडे २ । अण्डे ३ । कुम्मे य ४ । सेलए ५ । तुंबे य ६ ।। रोहिणी ७ । मल्ली ८ । मायन्दी ९ । चन्दिमा इय १०॥१॥ दावद्दवे ११ । उदगनाए १२ । मण्डके १३ । तेतलीति य १४ ॥ नन्दिहले १५ । अवरकका १६ । आइन्नो १७ । सुंसु १८ । पुण्डरीए १९॥२॥" विंशतिभिरसमाधिस्थानस्तत्र समाधानं समाधिश्चे Jain Education For Private & Personel Use Only S hrjainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38