Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ मतिक्र० वृत्ति ईर्यासमितता १ अवलोक्यभोक्तृता २ पात्राद्यादाननिक्षेपसमितता ३ संयमे अदुष्टमनःप्रवर्तकता ४ एवमदुष्टवाचोपि ५, विपर्यये प्राणि हिंसकः, प्रथमव्रतभावनाः पञ्च ।। हास्यत्यागः १ पर्यालोच्यभाषिता २ क्रोधत्यागः ३ लोभत्यागः ४ भयत्यागः ५, अन्यथाऽनृतमपि ब्रू॥१०॥ यादिति द्वितीयव्रतभावनाः॥प्रभुमधिकृत्य स्वयमेवावग्रहयाञ्चायां प्रवर्तते १ तृणाद्यनुज्ञापनायामाकर्ण्य प्रतिग्रहप्रदातृवचनं प्रवत २ अवग्रह स्पष्टमर्यादयानुज्ञाप्य भजेत् ३ अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम् ४ याचित्वा साधम्मिकाणामवग्रहं स्थानादि कुर्यादिति ५ । सर्वमान्यथाकरणे चादत्तं गृह्णीयात, तृतीयव्रतभावनाः । आहारगुप्तः स्यान्नातिमात्रं स्निग्धं वा भुञ्जीत १ विभूषां न कुर्यात् २ स्त्रियं तदिद्रियाणि | च नावलोकयेत् ३ न ख्यादिसंयुक्तां वसति सेवेत४स्त्रीणां कथां न कथयेत् ५ एकाकी सर्वत्रान्यथा ब्रह्मवतविराधकः स्याचतुर्थवतभावनाः॥ शब्दरूपगंधरसस्पर्शाख्यान् पञ्च विषयान् ( मनोज्ञान् प्रद्वेषं) मनोज्ञामनोज्ञान्प्रति रागद्वेषौ मुनिन कुर्यादन्यथा पञ्चमव्रतविराधकः स्यादिति पञ्चमव्रतभावनाः । एवमेकत्र पञ्चविंशतिः ॥ षड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशनकालैस्ते चामी “ दस उद्देसणकाला दसाण। कप्पस्स हुन्ति छच्चेव । दस चेव य ववहारस्स हुन्ति सव्वेवि छव्वीसं" । सप्तविंशतिविधेऽनगारचारित्रे ते चामी भेदाः व्रतषदं ६ पञ्चेन्द्रियजयः ११ भावशुद्धिः १२ प्रत्युपेक्षादिकरणशुद्धिः १३ क्षमा १४ लोभनिग्रहः १५ अकुशलमनोवाकायनिरोधः १८ षट्कायरक्षा N२४ संयमयोगयुक्तता २५ शीतादिवेदनातिसहना २६ मारणान्तिकोपसर्गसहनं २७ एतेऽनगारगुणा यत उक्तं " वयछक्क ६ मिंदियाणं निग्गहो ११ भाव १२ करणसच्चं च १३ । खमया १४ विरागयावि य १५ मणमाईणं निरोहो य १८ ॥१॥ कायाण छक्क २४ जोगमि जुत्तया २५ वेयणाहियासणया २६ । तह मारंत्तियअहियासणया २७ एएऽणगारगुणा ॥२॥" अष्टाविंशतिविधे आचारप्रकल्पे आचार एवाचारप्रकल्पस्तस्य भेदाश्चैते यथा सत्थपरिन्ना १ लोगविजओ २ सीओसणिज ३ संमत्तं ४ । आविंति ५ धुव ६ विमोहो ७ उवहाण ॥१०॥ Jain Education Hernationa For Private & Personel Use Only N w.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38