Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रतिक्र० शब्दाद्यासक्तः कर्मणा बध्यत इति भावना तैः पञ्चभिः शब्दरूपरसगन्धस्पर्शःप्रतिषिद्धकरणादिनातिचार इति । पञ्चभिर्महावतैः प्राणाति- वृत्ति
पातविरमणादिभिः प्रतीतैः प्रतिषिद्धकरणादिनातिचारसंभव इति । तथा पञ्चभिः सामतिभिः समेकीभावेनेतिः समितिः शोभनकाग्रपरिणामस्य चेष्टेत्यर्थः । ईर्यायां विषये समितिः ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्ते युगमादृष्टिना यतिना गमनागमनं कर्त्तव्यमिति ॥१॥ भाषणं भाषा तद्विषया समितिः भाषासमितिस्तया भाषासमिति म हितमितासन्दिग्धभाषणम् ॥२॥ एषणा गवेषणादिभेदा शङ्कितादिलक्षणा वा तस्यां समितिस्तया एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यमिति ॥३॥आदानभांडमात्रनिक्षेपणासमितिर्भाण्डमात्रे आदाननिक्षेपविषया प्रत्युपेक्षणप्रमार्जनपूर्विका सुन्दरचेटेत्यर्थः तया॥४॥उच्चारप्रश्रवणखेलसिलाणजल्लानां परि सर्वैः प्रकारैः स्थापनं परिस्थापनं अपुनर्ग्रहणतया न्यासः तत्र भवा पारिस्थापनिकी सा चासो समितिश्च प्रत्युपेक्षणादिपूर्वा सुन्दरचेष्टेत्यर्थः तया ॥५॥ तथा उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलः श्लेष्मा, सिङ्घाणं नासिकोद्भवः |श्लेष्मा, जल्लो मल्लः । प्रतिक्रमामिषद्धिजीवनिकायैः पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणैः प्रतिषिद्धकरणादिना प्रकारेणयोऽतिचारः कृत इति ।। तथा षङ्गिलेश्याभिः कृष्णलेश्यादिकाभिस्तत्र “कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्याते "
कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि आसां स्वरूपं चौरोदाहरणाज्ज्ञेयं तदिदं “ चोरा गामवहत्त्यं विणिग्गया एगु बेइ घाएह । वज पेच्छह तं सव्वं चउप्पयं दुप्पयंवावि ॥११॥ बीउ माणुसपुरिसे य तइयतो साउहे चउत्थोउ । पञ्चमओजुज्झन्ते छटो पुण तत्थिमं भणइ M॥२॥ एकं ता हरह धणं बीयं मारेह मा कुणह एवं एएछसुलेसासुं छप्पुरिसा हुन्ति आहरणं ॥ ३ ॥ जम्बूखादकदृष्टान्ताद्वा समयमप्रासिद्धाज्ज्ञेयम् । एतासु चाद्यास्तिस्रोप्रशस्ताः उत्तरास्तु प्रशस्ताः तत्राद्यासु वर्त्तनया अन्त्यासु चावर्त्तनयाऽतिचार इति तथा सप्तभिर्भयस्थान-IG
Jain Education
N
hal
For Private & Personel Use Only
jainelibrary.org
का

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38