Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रतिक्र०
॥७॥
समणभूए य" तत्र यस्यां श्रावको निःशङ्कादिसम्यग्दर्शनी मासं यावत् स्यात्तत्सा प्रथमा । १। व्रतधारी द्वितीया । २ । कृतसामा- गृत्ति यिकस्तृतीया । ३ । अष्टमीचतुर्दश्यादिषु चतुर्विधपौषधकर्ता चतुर्थी । ४ । पौषधकाले एकरात्रिक्यादिप्रतिमाप्रतिपत्ता अस्नानः प्रासुकभोजी दिवा ब्रह्मचारी रात्रौ कृतपरिमाणः कृतपौषधस्तु रात्रावपि ब्रह्मचार्येवेति एषा पञ्चमी । ५ । सदा ब्रह्मचारीति षष्ठी । ६ । सचिताहारवर्जकः सप्तमी । ७। आरंभः स्वयंकरणवर्जकोऽष्टमी । ८ । प्रेष्यैरप्यारम्भवर्जको नवमी । ९ । उद्दिष्टकृताहारवर्जकः क्षुरमुण्डितः शिखी वा निधानीकृतार्थजातनिदर्शकश्चेति दशमी । १० । क्षुरमुण्डो लुश्चितो वा रजोहरणपतद्ग्रहधारी श्रमणभूतो निर्ममत्वः स्वज्ञातिषु विहरतीति एकादशमी। ११ । अत्र च प्रथमा प्रतिमा मासं यावत् द्वितीया द्वौ मासौ तृतीया मासत्रयमेवं यावदेकादशी एकादश मासान्यावत् । तथा यत् यत् पूर्वस्यां भणितं तत्तदुत्तरस्यां सर्व भणनीयमेतासु वितथप्रज्ञापनाश्रद्धानादिना अतिचार इति ॥ तथा द्वादशभिर्भिक्षुप्रतिमाभिः तत्रोद्गमोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः साधवस्तेषां प्रतिमाःप्रतिज्ञाः भिक्षुप्रतिमास्ताश्चेमाः मासाद्याः सप्तान्ताः सप्त तथा प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकी अहोरात्रिकी एकरात्रिकी चेति भिक्षुपतिमा द्वादशकमेताश्च"पडिवज्जइ संपुन्नो सड्डयणी धिइजुओ महासत्तो । पडिमाओ जिणमयंमि सम्मं गुरुणा अणुन्नाओ॥१॥गच्छंमि य निम्माओ जा पुव्वा दस भवे असंपुन्ना।नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो॥२॥ वोसहचत्तदेहो उबसग्गसहो जहेब जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवडं तस्स ॥३॥ गच्छा विणिक्खमित्ता पडिवज्जे मासियं महापडिमं । दत्तेगभोयणस्स पाणस्सवि एव जा मासं ॥४॥ पच्छा गच्छमतीती एव दुमासी तिमासि जा सत्त । नवरं दत्तीवुट्ठी जा सत्त उ सत्तमासीए ॥५॥ एत्तो य अट्ठमीया हवइ कहं पढमसत्तराईदी । तीइ चउत्थचउत्थेण अपाणएणं अह विसेसो॥६॥ तथाचाग-1 मः " पढमसत्तराइन्दियाणं भिक्खुपडिमं पाडवन्नस्स अणगारस्स कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वेत्यादि" "उत्ता
Jain Education
na
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38