Book Title: Shraman Pratikraman Sutravrutti
Author(s): Purvacharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ |लाभो येभ्यस्ते कषायाश्चत्वारः क्रोधादयस्तत्र क्रोधोमीतिलक्षणो १ । मानस्तब्धता २। माया कौटिल्यं ३ । लोभो मूर्छालक्षणः। ४ ।। ते च प्रत्येकमनंतानुबंध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधा यद्यपि तथापि सामान्यत इह चत्वारोभिहितास्तैस्तत्र चानुदीर्णानां उदयनिरोधस्योदीर्णानां उदयविफलीकरणस्याकरणतोऽतिचार इति । संज्ञानं संज्ञा सा चतुर्दा तत्राहारसंज्ञाहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः सा पुनश्चतुर्भिः स्थानरुत्पद्यते तद्यथा न्यूनकोष्ठतया १ शुदिनीयोदयात् २ मत्या ३ सततमाहारचिन्तनाच ४ तथा भयसंज्ञा मोहोदयजो जीवपरिणामः इयमपि हीनसत्व तया १ भयमोहनीयोदयतो २ मत्या ३ तदर्थोपयागाच ४ प्रभवति तथा । मैथुनसंज्ञा मैथुनाभिलाषो वेदमोहोदयजो जीवपरिणाम एव इयमपि उपचितमांसशोणिततया १ वेदमोहनीयोदयतः २ मत्या ३] तदर्थोपयोगेन च ४ । समुत्पद्यते तथा । परिग्रहसंज्ञा परिग्रहाभिलाषः तीव्रलोभोदयज आत्मपरिणामः इयमपि चतुर्दा अल्पवित्ततया १ लोभोदयेन २ मत्या ३ तदर्थोपयोगेन च समुत्पद्यते तथा । विरुद्धा विनष्टा वा कथा विकथा स्वीकथादिका चतुर्दा तत्र स्त्रीणां कथा स्त्रीकथा तया १ सा चतुर्विधा जातिकथा १ कुलकथा २ रूपकथा ३ नेपथ्यकथा ४ तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति दृष्टि वा । एवं कुलकथाद्याः। भक्तमोदनादि तस्य भक्तकथा तया २ सापि चतुर्की द्रव्यकथादिका तत्र घृतादिद्रव्यकथा १ व्यञ्जनभेदकथा २ छागतित्तिराद्यारंभकथा ३ रूपकशतादिमूल्यपाकरसवतीकथा ४ । देशो जनपदस्तस्य कथा देशकथा तया २ इयमपि छन्दादिभेदादिना चतुर्विधैव च्छन्दो १ विधि २ विकल्पो ३ नेपथ्यं ४ चेति । तत्र च्छन्दः कचिद्देशे किश्चिन्मातुलदुहित्यादि गम्यागम्यं वा । विधिर्भोजनविवाहादिविधानक्रमभेदो देशभेदात् । विकल्पाः कूपवप्रसारण्यादिना शस्यनिष्यत्तिहदेवकुलादिविकल्पो वा । नेपथ्यं । स्त्रीणां पुरुषाणां वा स्वाभाविक्यादिका नेपथ्यरचना कापि कचिद्देश इति । राज्ञां कथा राजकथा तया । इयमपि निर्गमादिभे Jain Education in a For Private Personel Use Only Hjainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38