SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ |लाभो येभ्यस्ते कषायाश्चत्वारः क्रोधादयस्तत्र क्रोधोमीतिलक्षणो १ । मानस्तब्धता २। माया कौटिल्यं ३ । लोभो मूर्छालक्षणः। ४ ।। ते च प्रत्येकमनंतानुबंध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधा यद्यपि तथापि सामान्यत इह चत्वारोभिहितास्तैस्तत्र चानुदीर्णानां उदयनिरोधस्योदीर्णानां उदयविफलीकरणस्याकरणतोऽतिचार इति । संज्ञानं संज्ञा सा चतुर्दा तत्राहारसंज्ञाहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः सा पुनश्चतुर्भिः स्थानरुत्पद्यते तद्यथा न्यूनकोष्ठतया १ शुदिनीयोदयात् २ मत्या ३ सततमाहारचिन्तनाच ४ तथा भयसंज्ञा मोहोदयजो जीवपरिणामः इयमपि हीनसत्व तया १ भयमोहनीयोदयतो २ मत्या ३ तदर्थोपयागाच ४ प्रभवति तथा । मैथुनसंज्ञा मैथुनाभिलाषो वेदमोहोदयजो जीवपरिणाम एव इयमपि उपचितमांसशोणिततया १ वेदमोहनीयोदयतः २ मत्या ३] तदर्थोपयोगेन च ४ । समुत्पद्यते तथा । परिग्रहसंज्ञा परिग्रहाभिलाषः तीव्रलोभोदयज आत्मपरिणामः इयमपि चतुर्दा अल्पवित्ततया १ लोभोदयेन २ मत्या ३ तदर्थोपयोगेन च समुत्पद्यते तथा । विरुद्धा विनष्टा वा कथा विकथा स्वीकथादिका चतुर्दा तत्र स्त्रीणां कथा स्त्रीकथा तया १ सा चतुर्विधा जातिकथा १ कुलकथा २ रूपकथा ३ नेपथ्यकथा ४ तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति दृष्टि वा । एवं कुलकथाद्याः। भक्तमोदनादि तस्य भक्तकथा तया २ सापि चतुर्की द्रव्यकथादिका तत्र घृतादिद्रव्यकथा १ व्यञ्जनभेदकथा २ छागतित्तिराद्यारंभकथा ३ रूपकशतादिमूल्यपाकरसवतीकथा ४ । देशो जनपदस्तस्य कथा देशकथा तया २ इयमपि छन्दादिभेदादिना चतुर्विधैव च्छन्दो १ विधि २ विकल्पो ३ नेपथ्यं ४ चेति । तत्र च्छन्दः कचिद्देशे किश्चिन्मातुलदुहित्यादि गम्यागम्यं वा । विधिर्भोजनविवाहादिविधानक्रमभेदो देशभेदात् । विकल्पाः कूपवप्रसारण्यादिना शस्यनिष्यत्तिहदेवकुलादिविकल्पो वा । नेपथ्यं । स्त्रीणां पुरुषाणां वा स्वाभाविक्यादिका नेपथ्यरचना कापि कचिद्देश इति । राज्ञां कथा राजकथा तया । इयमपि निर्गमादिभे Jain Education in a For Private Personel Use Only Hjainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy