SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रतिक्र० दात् चतुर्द्धानिर्गमो १ अतिगमनं २ बलं ३ कोशकोष्ठागारादि चेति ४ । तत्र निर्गमः एवं विभूत्या राजा पुरानिर्गत इत्यादि । अतिगमनमेवं प्रविष्ट इत्यादि २। बलन्मतावतोऽश्वहस्त्यादयो राज्ञः ३ । कोश एतावत्यः कोट्यः कोव्यागाराश्चैतावन्त इत्यादि ॥ ४ तथा ध्यातिानं स्थिराध्यवसानं मनएकाग्रावलंबन इत्यर्थः कालतोन्तमुहर्त्तमात्रं तच्चतुर्विधमा रौद्रं धर्म्य शुक्लमिति । तत्र कृतं दुःखं । तत्र भवमा क्लिष्टमित्यर्थः । हिंसाद्यतिक्रौर्यानुगतो रुद्रः तस्येदं रौद्रं धर्मः श्रुतचारित्रलक्षणः तस्मादनपेतं धर्म्य । शोधयत्यष्टप्रकार कर्मामलं शुचं वा क्लमयतीति शुक्ल “कामाणुरञ्जियं अट्ट रोदं हिंसाणुरञ्जियं । धम्माणुरंजियं धम्म सुक्कञ्झाणं निरञ्जणं" तत्र आत चतुर्विधमेकं तावदमनोज्ञशब्दादिविषयसंप्रयोगे सति तद्वियोगैकतानो मनोनिरोधः तदसंप्रयोगस्मरणं चेति ॥१॥ द्वितीयमसद्वेदनीय तत्पतीकारानुकूलमनसा तथैव वियोगचिन्तनादिरूपं ॥२॥ तृतीयं मनोज्ञविषयसंप्रयोगे तदविप्रयोगैकतानचित्तता ॥ ३ ॥ चतुर्थं तु |चक्रवादिसमृद्धिदर्शनान् ममाप्यमुष्य तपसः फलमेवंविधमन्यजन्मान स्यादिति चित्तनिरोधः ॥४॥ चतुर्दा रौद्रमपि तत्राद्यं गलकूट|पाशयन्त्रादिपाणिवधोपायचिन्तनैकतानचित्तनिरोधः ॥१॥ द्वितीयं कूटसाक्षिकत्वादिपरवचनोपायैरनृतानुबन्धि ॥ २॥ तृतीयं परद्रव्या-16 ||पहारोपायैस्तेयानुबन्धि ॥ ३ ॥ चतुर्थं धनधान्यादिविषयसंरक्षणैकतानं मनोहर्निशामिति ॥ ४॥ धर्म्यमपि चतुर्विधं तत्र प्रथममाज्ञाविचयाख्यं सर्वज्ञवचनमाज्ञा तदर्थनिर्णयनरूपं ॥ १ ॥ द्वितीयमपायविचयाख्यं दुष्टमनोवाकाययोगादेर्जन्तोरपायबहुलताचिन्तनरूपम् ॥२॥ तृतीयं विषाकविचयाख्यं अशुभशुभकर्मविपाकानुचिन्तनरूपं ॥३॥ चतुर्थ संस्थानविचयाख्यं जीवपुद्गलक्षेत्रसंस्थानविचिन्तनरूपमिति॥४॥ शुक्लमपि चतुर्विधं तद्यथा प्रथमं पृथक्त्ववितर्क सविचारं पृथक्त्वेन भेदेन विस्तीर्णभावेन मनोवितर्कः श्रुतं यस्मिन् तत्तथा सह विचारेण वर्तत इति सविचारं विचारोऽर्थ व्यञ्जनयोगसंक्रमणलक्षणोऽर्थो द्रव्यं व्यञ्जनं शब्दो योगो मनःप्रभृतिरेतद्भेदेन सविचारमायञ्जन in Educatan Intemanona For Private & Personel Use Only www.jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy