Book Title: Shraman Pratikraman Sutravrutti Author(s): Purvacharya, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ प्रस्तावना. श्रीवीतरागाय नमः “ यतिप्रतिक्रमणसूत्रम् ” इत्याकारिकामभिधां यथार्थयत्ययं ग्रन्थः । मोक्षमार्गप्रवृत्तो वधादिविरतो यतिस्तेन स्वभूमिकोचितयमनियमाद्याचारात्, ज्ञानदर्शनचारित्राद्वा, भगवतो वीतरागस्यानुशासनाद्वा, ज्ञात्वाऽज्ञात्वा वा यद्विरुद्धमतिक्रान्तं तदतिक्रमणम्ः ततः परावृत्य पुनः स्वोचिताचारावस्थानं तत् प्रतिक्रमणम्ः तदर्थप्रतिपादको ग्रन्थो यतिप्रतिक्रमणम्ः अर्थादयमतिक्रमणं प्रदर्श्य तस्माद्योग्यमूमिकायां प्रतिक्रमणरूपमर्थ प्रतिपादयति. उक्त ग्रन्थ सूत्रकारवृत्तिकारयोराचार्ययोर्नामनी समयश्चन केनापि प्रकारेण ज्ञातुं शक्यते, सूत्रान्ते वृत्त्यन्ते च तदद्भावात्; तथापीद्मवसीयते यत्परिगणितं प्रतिक्रमणं चतुर्थावश्यकत्वेन, अपिच आद्यन्ततीर्थङ्करसाधुमात्रैरेव प्रत्यहं प्रातः सायं च नियमेनानुष्ठेयावश्यक क्रियेत्युपदेशमद्यापि तीर्थकरीयं पालयन्ति साधवः, एतेन श्रीवीतरागस्य भगवतो महावीरस्वामिनः समकालीनत्वमस्य निर्विवादम्; तेन सूत्रनिर्मातारोप्याचार्यचरणाश्चिरन्तना एव; तथापि तत्समये अस्यामेवापरस्यां वा वाण्यां, एतावत्स्वेव वर्णेषु, शब्देषु, वाक्येषु वा, रचना, लेखना, किमासीद् ! अत्र विद्वांस एव प्रमाणम्. साधुसाध्वीभिरङ्गीकृतव्रतेषु अह्नि रात्रौ वा कोप्यतिचारः समुत्पन्नश्चेत्तं संस्मार्य तस्मात्परावर्तितव्यमित्येवोदेशो ऽस्य ग्रन्थस्य पूर्व स्पष्टरीत्या प्रदर्शित एव. ग्रन्थोऽयं सम्मुद्राप्य प्राकाश्यं प्रापित इत्येतत्कार्य सूरतपुराभिजनः श्रेष्ठी - देवचन्द्र- लालभाई Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38