Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 6
________________ ८८ श्रीशान्तिनाथचरित्रे इदं सत्यमसत्यं वा परिहासवचो ऽथवा । कार्य: पुरुषकारो हि तथापि पुरुषण भोः ॥ ७१ ॥ मित्रानन्दोऽवददैवायत्ते किं नाम पौरुषम्। प्रत्यूचे चामरस्तं नाश्रीषोकिन्तु भवानदः ॥ ७२ ॥ आपत् निमित्तदृष्टाऽपि जीवितान्तविधायिनी। शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिण: ॥ ७३ ॥ ज्ञानगर्भ: स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदने तत्कथामिति ॥ ७४ ॥ अस्त्यत्र भरते धान्यधना बन्धुरा पुरी। चम्पेति पृथिवीख्याता 'लङ्कायाः सदृशा गुणैः ॥ ७५ ॥ जितशत्रु पस्तनाभवत्कीर्ति यशोनिधिः । दृप्ताय॑नेककुम्भौन्द्रकुम्भपाटनकेसरी ॥ ७६ ॥ राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्धयाऽवगणितो येन गुरुः स्वौकसामपि ॥ ७७॥ भार्या गुणावली तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपौविजितस्मरः ॥ ७८ ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासीन्महीपतिः ॥ ७ ॥ आययौ तावदष्टाङ्गनिमित्तज्ञानपण्डितः । नृपपर्षदि ना कश्चित् प्रतीहारनिवेदितः ॥ ८० ॥ (१) ङ च छ ऽल कायाः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 105