________________
८८
श्रीशान्तिनाथचरित्रे इदं सत्यमसत्यं वा परिहासवचो ऽथवा । कार्य: पुरुषकारो हि तथापि पुरुषण भोः ॥ ७१ ॥ मित्रानन्दोऽवददैवायत्ते किं नाम पौरुषम्। प्रत्यूचे चामरस्तं नाश्रीषोकिन्तु भवानदः ॥ ७२ ॥ आपत् निमित्तदृष्टाऽपि जीवितान्तविधायिनी। शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिण: ॥ ७३ ॥ ज्ञानगर्भ: स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदने तत्कथामिति ॥ ७४ ॥ अस्त्यत्र भरते धान्यधना बन्धुरा पुरी। चम्पेति पृथिवीख्याता 'लङ्कायाः सदृशा गुणैः ॥ ७५ ॥ जितशत्रु पस्तनाभवत्कीर्ति यशोनिधिः । दृप्ताय॑नेककुम्भौन्द्रकुम्भपाटनकेसरी ॥ ७६ ॥ राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्धयाऽवगणितो येन गुरुः स्वौकसामपि ॥ ७७॥ भार्या गुणावली तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपौविजितस्मरः ॥ ७८ ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासीन्महीपतिः ॥ ७ ॥ आययौ तावदष्टाङ्गनिमित्तज्ञानपण्डितः । नृपपर्षदि ना कश्चित् प्रतीहारनिवेदितः ॥ ८० ॥
(१) ङ च छ ऽल कायाः ।