Book Title: Saraswatollas Kavya Vishe Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 5
________________ ||७|| ॥८॥ ॥९॥ अनुसंधान-१५.5 वाग्वादिनी सन्निधिवत्तितत्तद्विद्याव्रजादेकतरां दिधीर्षुः ।। मन्येऽक्षमालाकमनीयपाणिः पाशं गताशङ्कमुपाददे सः गम्भीरनाभीनिभकूपकूले तस्य व्यलोकि स्रवदुस्रवारिः । अङ्गष्टपुष्टाङ्गवृषादवाप्तभ्रान्तिर्घटीयन्त्र इवाऽक्षसूत्रम् मेरु त्रिरत्नोज्ज्वलमेखलं नाऽस्खलज्जपन्नप्युदलङ्घताऽसौ । विद्याधरेशा अपि यं न शक्ताः स्युलघितुं किं तमनासविद्यः हृत्पद्मतोऽतिप्रणिधानमुद्राबन्धेन निर्यातुमपारयन्त्या । तस्य प्रसर्पज्जपहुङ्कृतीनां दम्भादरावि श्रुतदेव्यलिन्या प्राप्तोऽथ सारस्वतमन्त्रजापारम्भाद्दिनः पञ्चदशोऽपशोकः । प्रामुमुदन् तत्र मनांसि नृणां दीपालिकावर्षतटाकपालिः सम्पूर्णचूर्णद्रवसान्द्ररेखा - प्रसाधिता यत्र विभान्ति सौधाः । गोक्षीरधारोज्ज्वललो[ल]लक्ष्मीलीलाकटाक्षावलिशालिनः किम् आशङ्क्यते यत्र विलोक्य लोकैलिप्ताऽऽलयप्राङ्गणचूर्णरेखाः । अर्केण कोपात्करकर्त्तरीभिः ॥१०॥ ॥११॥ ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26